मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 10, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ४ पान १० ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ शिव ॥३८॥ रमसे च तया सार्धं मद्भक्त्या भावितो दृढम् । ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥३९॥ स्मृत- मात्रस्तव्याग्रेऽहं प्रत्यक्षः स्यां सदाशिव । इति दत्त्वा वरं देवस्तत्रैवांतरधीयत ॥४०॥ ततश्च शंकरः क्षुब्धः शक्तो जातः स्वकर्मणि । जटामास्फालयामास गणेशं मनसा स्मरन् ॥४१॥ तस्माज्जातो महाबाहुर्वीरभद्रस्त्रिमस्तकः । त्रिपदः शूलवान् साक्षान्मृत्युरूपो महाद्युतिः ॥४२॥ शंकरं प्रणनामाथ प्रांजलिः सन्पुरः स्थितः । आज्ञां कुरु महादेव दासोऽहं ते वशे स्थितः ॥४३॥ वचनं तस्य संश्रुत्य प्रहृष्टः शंकरोऽब्रवीत् । सयज्ञस्य च दक्षस्य हरणं कुरु सांप्रतम् ॥४४॥ तदाज्ञां शिरसा धृत्वा अट्टहासमथाकरोत् । तेन त्रिभुवनं सर्वं कंपितं भयविह्वलम् ॥४५॥ ततो निर्गम्य वेगेन शरीराग्निर्नमे महान् । नानारुद्रानपारांश्च तैर्वृतः स गतो मखम् ॥४६॥ तमन्वयुर्गणाः शंभोर्नन्दिकेशादयोऽपरे । क्षुभिताः क्रोधसंयुक्ता ब्रह्मांडाशनसन्निभाः ॥४७॥ दुर्निमित्तानि सर्वाणि दक्षगेहेऽभवंस्तदा । शंकिता मुनयो देवाः किं भवेदिति विह्वलाः ॥४८॥ एतस्मिन्नंतरे तत्र दक्षयज्ञे महाबलः । आजगामावृतो रुद्रैर्वीरभद्रो भयानकः ॥४९॥ नंदी शृंगिरिटिर्भृंगी पुष्पदंतमुखास्तथा । आगताः क्रोधदीप्तास्या भक्षयन्तो यथान्तकाः ॥५०॥ सहसा वेगतः सर्वे मारयन्त इतस्ततः । पलायंत च दिक्प्रान्ते दक्षस्यानुचरास्तदा ॥५१॥ यज्ञमंडपमासाद्य बभंजुस्तत्क्षणेन च । देवान् सर्वान् मुनींश्चैव पीडयन्तः सुदारुणाः ॥५२॥ ऋषिपत्नीर्दधुस्तत्र देवपत्नीः सहस्रशः । अताडयन्महावीर्या हाहाकाराः प्रवर्तिताः ॥५३॥ कथं त्वसाधुपतयो भवती- भिर्वृताः खलु । शिवद्वेषकरा दुष्टास्तस्य प्राप्तं महत्फलम् ॥५४॥ एवमूचुर्हविर्द्रव्यं बभक्षुस्ते प्रहर्षिताः । वेदिकायां प्रचक्रुस्ते विट्सर्गं मूत्रणं तथा ॥५५॥ जगाम भगवांस्तत्र शंकरः क्रोधसंयुतः । धनुर्बाणधरः साक्षात्प्रलयाग्निरिवोत्थितः ॥५६॥ तत्र युद्धमभूद् घोरं देवानां रुद्रचारिणाम् । स्वयं च युयुधे शंभुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥५७॥ पूष्णो दंतांश्च नाराचैर्भेदयामास शंकरः । भगस्य नेत्रमुन्मूल्य पाटयामास संयुगे ॥५८॥ धर्मं धृत्वा महावीरो नंदिकेशोऽब्रवीत्तदा । को धर्मो वद रे दुष्ट शिवहीने मखे खलु ॥५९॥ कश्यपं धृतवांस्तत्र भृंगी तेजस्विनां वरः । वरुणं ताडयामास पुष्पदन्तश्च वीर्यवान् ॥६०॥ भैरवेण धृतस्तत्र देवेन्द्रो मूर्च्छितः कृतः । वीरभद्रो बलाद्दक्षं पातयामास भूतले ॥६१॥ एवं प्रमथिते यज्ञे शंखचक्रगदाधरः । युयुधे विष्णुरुद्यग्रो महाबलसमन्वितः ॥६२॥ शस्त्रास्त्रैर्बहुभिस्तेन मर्दिता बलवत्तराः । रुद्रा भूतपिशाचाद्या हाहाकारं प्रचक्रिरे ॥६३॥ तं दृष्ट्वा सहसा शंभुर्हृदि ध्यात्वा गणाधिपम् । बाणैस्तं हृदि संविध्य पातयामास भूतले ॥६४॥ पुनः