मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 100, कुल 1023 में से
संदर्भ में पढ़ेंख. २ अ. ४५ पान १०० काव्य उवाच। शृणु दंभ गणेशस्य चेष्टितं सर्वदं परम्। येन ते संशयः सर्वो नाशं यास्यति तत्क्षणात् ॥३२॥ इदं सृष्टं गणेशेन नानाभेदमयं जगत्। तत्र स्वस्वपदे चैव स्थापिता जंतवोऽभवन् ॥ ३३ ॥ अधर्मस्य च धर्मस्य व्यवस्था तेन सा कृता। तत्र लोभेन वै धर्ममधर्मो जयते यदा ॥ ३४॥ सुराणां वै तदा तेजः क्षीणं भवति सर्वतः। असुराणां महत्तेजो वर्धते च दिने दिने ॥ ३५ ॥ यदाऽयं गणराजस्तु देवानां पक्षवर्धनः। असुराणां विनाशाय स्वयं भवति चोद्यतः ॥ ३६॥ हत्वा देवगणैः सर्वैरसुराणां बलं महत्। स्वस्थाने स्थापयत्येव धर्मं सर्वप्रयत्नतः ॥ ३७॥ धर्मेण सकलं दैत्य ह्यधर्मस्य बलं हतम्। तदा दैत्यादिकानां तु मूलच्छेदो भविष्यति ॥ ३८॥ देवानामुदितं तेजो भवेद्यदि महाद्भुतम् । दैत्याय वरदस्तर्हि भवेच्चानेकरूपवान् ॥ ३९ ॥ असुरैर्वरसंयुक्तैर्धर्मे क्षीणे समंततः। अधर्मस्य स संस्थां वै यथापूर्वमकल्पयत् ॥ ४० ॥ एवं लोभसमायुक्ताः सुरा दैत्या भवंति चेत्। तदा तेषां विनाशाय गणेशो यततेऽसुर ॥ ४१ ॥ नास्ति तस्य विचारेण स्वः परः कश्चिदेव च। क्रीडार्थं स्वात्मभावेषु स्थापयत्येव वै जनान् ॥ ४२ ॥ मुद्गल उवाच। शुक्रस्य वचनं रम्यं श्रुत्वा दंभः प्रतापवान्। गणेशं मनसा ध्यायन् संस्थितो नगरे स्वके ॥ ४३ ॥ एकांतेऽसौ महातेजा विचारं प्रचकार ह। अयं गणेशनामा वै पूर्ण ब्रह्म सनातनम् ॥ ४४॥ तमेव शरणं गच्छन् यशस्वी स भविष्यति। सर्वेषु समरूपेण स्थितोऽयं नात्र संशयः ॥ ४५ ॥ त्यक्त्वा सिद्धिपतिं सिद्धिमिच्छेद्यो दुर्मतिः परम्। असिद्धिर्भविता तस्य सुहृद्भिर्नात्र संशयः॥ ४६ ॥ बुद्धेः पतिं गणेशं यस्त्यक्त्वा कुशलमिच्छति। तस्याऽकुशलमेवं च भविता दुष्टभावतः ॥ ४७॥ सिद्धिबुद्धिविहीनं तु ना किंचिद् दृश्यते मया। अतस्तं शरणं यामि सुरासुरसमं विभुम् ॥ ४८ ॥ इति निश्चितसंकल्पो दंभः सुष्वाप निर्भयः। गणेशं हृदि विन्यस्य भक्तिभावेन भावितम् ॥ ४९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते दंभासुरविचारो नाम चतुश्चत्वारिंशोऽध्यायः॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शृणु दक्ष महाप्राज्ञ महद् दंभस्य कौशलम् । त्यक्त्वाऽऽसुरस्वभावं स संस्थितो विगतज्वरः ॥ १ ॥ प्रातरुत्थाय दैत्यान् स सर्वानाकारयत् स्वयम् । उवाच तान् महातेजा वचनं शुक्रसन्निधौ ॥ २ ॥ दंभासुर उवाच । शृणुध्वमसुराः सर्वे गुरुणाऽहं प्रबोधितः । शरणं वक्रतुंडं च यामि तत्र न संशयः ॥ ३ ॥ सुराणामधिपो नाऽयं