मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 1009, कुल 1023 में से
संदर्भ में पढ़ेंखं. ९ अ. ३२ पान ८१ सिद्धिबुद्धिगम् । तद्भावं हंति तुंडेन तेनायं वक्रतुंडकः ॥९॥ मायासुखं नराकारं तस्माद्वक्रं परं सुखम् । तयोर्ब्रह्मसमायोगे वक्रतुंडोऽयमुच्यते ॥१०॥ कंठाधो मायया युक्तो मस्तकं तद्विवर्जितम् । वक्राख्यं तस्य विप्रेश तेनाऽयं वक्रतुंडकः ॥११॥ अनेनार्थेन संयुक्तं वक्रतुंडं भजस्व च । तेन शांतिसमायुक्तो गाणपत्यो भविष्यसि ॥१२॥ एवमुक्त्वा ययौ योगी याज्ञवल्क्यो महायशाः । कुत्सो हर्षसमायुक्तो वक्रतुंडपरोऽभवत् ॥१३॥ ततः स्वल्पेन कालेन शांतिं लेभे महामुनिः । गाणपत्यस्वभावेनाऽभजत्तं वक्रतुंडकम् ॥१४॥ कुत्सो नित्यं महायोगी वक्रतुंडचरित्रकम् । खंडं पपाठ भक्त्या स मौद्गलस्य सुहर्षितः ॥१५॥ तस्य गेहे कदाचित्तु अगमत् शूलसंयुतः । भगंदरयुतः पापी द्विज आंगिरसोद्भवः ॥१६॥ दुःखयुक्तो ननामाऽसौ कुत्सं योगविदां वरम् । स्नात्वा सुषुवाप विप्रेश तत्सांनिध्येऽतिदुःखितः ॥१७॥ कुत्सो गणेशं संपूज्याऽपठत्तं वक्रतुंडगम् । चरितं सोऽपि शुश्रावानायासेन गृहे स्थितः ॥१८॥ संपूर्गे संश्रुते तत्र रोगहीनो बभूव ह । प्रणम्यांगिरसस्तं च ययौ स्थानं स्वकीयकम् ॥१९॥ भुक्त्वा स विविधान् भोगान् जगामांते गणेश्वरम् । चित्रमांगिरसोद्भूतं पश्य शौनक ते नमः ॥२०॥ एवं नाना जनाः सिद्धिं ययुः श्रवणमात्रतः । वक्रतुंडचरित्रस्य मौद्गलस्यस्य मानद ॥२१॥ तन्नैवं कति ते ब्रूयां मया वक्तुं न शक्यते । अतः संक्षेपतः प्रोक्तं माहात्म्यं श्रवणे भवम् ॥२२॥
॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वक्रतुंडचरित्रश्रवणमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥
❧❧❧
॥ श्रीगणेशाय नमः ॥ सूत उवाच । पिप्पलादः पुरा कश्चिद्वभूव ब्राह्मणोत्तमः । स शैवमार्गसंयुक्तोऽभजत्तं शंकरं सदा ॥१॥ गौतमीतीरसंस्थः स क्रमतो योगसंस्थितः । बभूव सहजे संस्थः स्वाधीनत्वपरायणः ॥२॥ ततो वेदार्थजं योगं ज्ञात्वा शांतिधरं परम् । सहजं मोहहीनं तत् दृष्ट्वा दुःखयुतोऽभवत् ॥३॥ जगाम गौतमं विप्रो भक्तिसंयुक्त आनमत् । पप्रच्छ योगशांत्यर्थमुपायं ब्रह्मदं परम् ॥४॥ जगाद गौतमो विप्रं स पृष्टश्चैकदंतकम् । ब्रह्म तस्यैव भक्त्या त्वं शांतियोग-