भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 1011, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 1011

खं. ९ अ. ३४ | पान ८३

ब्रह्मणां विप्र जठरे संस्थितः सदा । गणेशो भोगभोक्ता वै कोऽपि तस्योदरे न तु ॥८॥ प्रोक्तो महोदरस्तेन वेदेषु गणनायकः । एकस्तं भज भक्त्या वै तया शांतिमवाप्स्यसि ॥९॥ एवमुक्त्वा महायोगी व्यासो योगींद्रसत्तमः । विरराम स तं नत्वा आश्रमं स्वं जगाम च ॥१०॥ महोदरचरित्रं स मौद्गलस्थं विशेषतः । सेव्ययोगपरो भूत्वाऽभजत्तं तु महोदरम् ॥११॥ तस्मै तुष्टो गणाधीशो ददौ योगं सुशांतिगम् । ततः शांतियुतो नित्यमभजद्गणनायकम् ॥१२॥ महोदरचरित्रं यदपठन्नित्यमादरात् । महायोगी स्वयं तत्र स्थापयामास विघ्नपम् ॥१३॥ कदाचिद्गणराजं स पूजयित्वा पपाठ तत् । महोदरस्य माहात्म्यं तत्र चित्रं बभूव ह ॥१४॥ मंडूको दैवयोगेन शुश्रावाज्ञानसंयुतः । निर्माल्ये संस्थितस्तत्र भयभीतः समंततः ॥१५॥ ततो बहौ गते काले मृतं तं कुत्रचित् स्थले । मंडूकं च समानेतुमगमन् गाणपा मुदा ॥१६॥ संगृह्य ब्रह्मभूतं ते चक्रुरेकश्रवात् परम् । पाठस्य पश्य विप्रेश माहात्म्यं परमाद्भुतम् ॥१७॥ एवं नाना जना विप्र महोदर- चरित्रकम् । संसेव्य भुक्तभोगास्तेऽभवन् ब्रह्ममयाऽमृताः ॥१८॥

॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे महोदरचरितमाहात्म्यवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय् नमः ॥ सूत उवाच । आश्वलायनवंशस्थो ब्राह्मणः सुरुचिः पुरा । नाम्ना स्वधर्मनिष्ठः स ब्रह्मज्ञानपरोऽभवत् ॥१॥ नानायोगक्रमे सक्तः शमी दमपरायणः । चचार योगचर्यां तामंते सहजगोऽभवत् ॥२॥ तत्र स्वाधीनतां दृष्ट्वा विस्मितः प्रययौ स्वयम् । स्वगुरुं तं प्रणम्याऽऽदौ योगं पप्रच्छ उत्तमम् ॥३॥ सुरुचिरुवाच । वद योगं महायोगिन् शांतिदं सर्वभावतः । अस्माकं त्वं परा काष्ठा गुरुवंशधरः प्रभुः ॥४॥ आश्वलायन उवाच । पैलेन कथितो योगो मह्यं शांतिप्रदः परः । तं तेऽहं कथयिष्यामि ब्रह्मभूतप्रदायकम् ॥५॥ चित्तं पंचविधं त्यक्त्वाऽहं ब्रह्मेति प्रबोधतः । सरसं तेन शांतिस्थो भविष्यसि न संशयः ॥६॥ सरसं चित्तकं यस्मात् संभूतं यन्मयं मतम् । अंते यत्र गतं तत्त्वं गजं जानीहि मानद ॥७॥ तदेवाननकं