मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 113, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ५० पान ११३ महाद्भुता । अन्यथा लोकनाशः स्यात्तस्मात् कुरु वचो महत् ॥२०॥ लोकसंरक्षणार्थाय दयायुक्तो महामतिः । राज्यं जग्राह काश्याश्च देववर्जितमुत्तमम् ॥२१॥ देवानामखिलं राज्यं सदा स्वर्गेषु वर्तते । मनुष्याणां पृथिव्यां वै पाताले नागरक्षसाम् ॥२२॥ अतो देवतया शंभुं पूजयिष्यामि मानद । सर्वैः स्वधर्मे स्थातव्यं मयि राज्यं प्रशासति ॥२३॥ तथेति तमुवाचाथ ब्रह्मा लोकपितामहः । काशीराज्यं ददौ तस्मै दिवोदासाय धीमते ॥२४॥ ततो ब्रह्मा ययौ काश्यां शंकरं प्रणिपत्य सः । उवाच तं विशेषज्ञो मंदरं गच्छ शंकर ॥२५॥ मरीचिना तपस्तेपे तस्मै देहि वरं शिव । नो चेन्मरिष्यति स वै तस्माद्गच्छ जगद्गुरो ॥२६॥ ब्रह्मणो गिरमाकर्ण्य तेन सार्धं ययौ शिवः । देवर्षिगणसंयुक्तो वरार्थं ब्राह्मणस्य च ॥२७॥ तं दृष्ट्वेति वरं ब्रूहि शिवो वचनमब्रवीत् । स उवाच शिवं तत्र मुक्तिं देहि सदाशिव ॥२८॥ इत्युक्त्वा तपसो दुःखाज्जहौ प्राणान् महामुनिः । प्राप्तः शिवस्य सारूप्यं कैलासं स गतो मुनिः ॥ २९ ॥ एतस्मिन्नंतरे शंभुं ब्रह्मोवाच कृतांजलिः । वस त्वं मंदरे शंभो त्यज काशीं महापुरीम् ॥ ३० ॥ अनावृष्टिभवं दुःखं तन्निवृत्यर्थमादरात् । राज्यं दत्तं मया देव दिवोदासाय शंकर ॥३१॥ तेनापि कथितं देवराज्यं पृथ्व्यां न चेद्भवेत् । तदा राज्यं करिष्यामि नान्यथाऽहं कदाचन ॥ ३२॥ मया लोकस्य रक्षार्थं दत्तं राज्यं च तस्य हि । क्षमस्व चापराधं मे महादेव नमोऽस्तु ते ॥३३॥ तथेति शिव ऊचे तं निःश्वस्य परमं प्रभुः । पार्वत्या गणसंयुक्त उवास स च मंदरे ॥३४॥ अविमुक्तं महाक्षेत्रं दैवेन त्याजितं मम । अधुना मुक्तता केन कर्मणा भविता मम ॥३५॥ न ब्रह्मणो वचो मिथ्या भविष्यति कदाचन । अधुना किं करिष्यामि काशीविरहदुःखितः ॥३६॥ अहं विश्वेश्वरश्चाऽस्मि मदधीनं न किंचन । विश्वनाथेति नामेदं व्यर्थरूपं न संशयः ॥३७॥ अखिलप्राणितुल्योऽहं कृतो येन महात्मना । शरणं विघ्नराजं तं गच्छामि न च संशयः ॥३८॥ ममापि विघ्नरूपं यत् समुत्पन्नं महाद्भुतम् । अहंकार- विहीनोऽहं कृतस्तेन महात्मना ॥३९॥ इत्येवं निश्चयं कृत्वा शिवस्तत्राचले तपः । तताप गणपं ध्यात्वा काशीप्राप्त्यर्थमादरात् ॥४०॥ काशी च दुःखसंयुक्ता श्रुत्वा शंभोर्विनिर्गतम् । तपस्तताप विघ्नेशं ध्यात्वा निश्चलचेतसा ॥४१॥ अहंकारविनिर्मुक्ता काशी दुःखितमानसा । शिवप्राप्त्यर्थमतुलं तताप परमं तपः ॥४२॥ दिवोदासस्तु तद्राज्यमकरोद्धर्मतः स्वयम् । ततो वृष्टिः समुत्पन्ना सर्वेषां सुखदायिका ॥४३॥ सकलं वृष्टियोगेन जगत्स्थावरजंगमम् । मोदयुक्तं तदा जातं तस्मिन् राज्यं प्रशासति ॥४४॥ स्वस्वधर्मरताः सर्वे वर्णाश्रमविभागशः । पापलेशो न तत्रासीत्तस्मिन् राज्यं प्रशासति ॥४५॥