मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 115, कुल 1023 में से
संदर्भ में पढ़ें[शीर्षक: खं. १ अ. ५१ | पान ११५]
॥ श्रीगणेशाय नमः ॥ याज्ञवल्क्य उवाच । ततः शंभुः परां चिंतामापेदे मनसा मुने । देवा हतोद्यमा जातास्तपसा तस्य धीमतः ॥ १ ॥ स्वधर्मपर एवायं तपसा च समन्वितः । नोच्चालितुं भवेच्छक्यः किं भविष्यति वै ततः ॥ २ ॥ मया काशी कदा लभ्या दग्धोऽहं विरहाग्निना । मरिष्यामि न संदेहो विललाप महेश्वरः ॥ ३ ॥ अस्थिचर्मावशेषोऽपि शुशोच बहुधा शिवः । तं देवा मुनयः सर्वे सांत्वयामासुरादरात् ॥ ४ ॥ देवर्षय ऊचुः । मा कुरुष्व वृथा चिंतां त्वं समर्थो महेश्वर । तव प्रसादयोगेन गच्छामः काशिकां वयम् ॥ ५ ॥ नानासिद्धिभिरालोभ्य लोकांस्तत्र समंततः । तत्पापभागिनं भूपं दिवोदासं च कुर्महे ॥ ६ ॥ ततस्त्वया विशेषेण काशी ग्राह्या सदाशिव । एवमुक्त्वा ययुस्तत्र देवाः सर्वे प्रहर्षिताः ॥ ७ ॥ तत्राभवन् गताः काश्यां नानारूपधराः सुराः । जनान् संमोहयामासुः सिद्धिं कृत्वा विशेषतः ॥ ८ ॥ धर्मशीला जनाः सर्वे तेषां वाक्यं न चक्रिरे । एकवर्षं प्रयत्नं ते कृत्वा शांतिं प्रलेभिरे ॥ ९ ॥ ततः सदाशिवस्तत्र प्रेरयामास भैरवान् । तेपि यत्नैश्च विविधैर्न समर्था बभूविरे ॥ १० ॥ एवं क्रमेण आदित्या वसवश्चर्षयः पराः । योगिन्यश्च गणाः सर्वे हतोद्योगास्तथाऽभवन् ॥ ११ ॥ ततो ब्रह्माणमाबोध्य प्रेषयामास शंकरः । दशाश्वमेधाश्च कृतास्तेन शांतिं जगाम सः ॥ १२ ॥ ततस्तु शंकरस्तत्र ध्याननिष्ठो बभूव ह । चरणे विघ्नराजस्य सर्वाशापूरके परे ॥ १३ ॥ सविघ्नं मां गणाध्यक्ष निर्विघ्नं कुरु सर्वदा । दासोऽहं तेऽविमुक्तस्य संरक्ष विरहात्प्रभो ॥ १४ ॥ एवं निश्चितचित्तस्तु वर्षमेकं गजाननम् । ध्यानेन तोषयामास शंकरः कार्यसिद्धये ॥ १५ ॥ दृष्ट्वाऽहंकारनिर्मुक्तमत्यंतं शंकरं प्रभुः । दर्शयामास रूपं स्वं योगिध्येय- मनुत्तमम् ॥ १६ ॥ सिंहारूढं चतुर्बाहुं पाशांकुशधरं प्रभुम् । वरदाभयहस्तं च सिद्धिबुद्धिसमन्वितम् ॥ १७ ॥ रक्तवर्णं सुशोभाढ्यं गजवक्त्रं महोदरम् । विविधैः शेषनाभिं तं भूषणैः सुविराजितम् ॥ १८ ॥ चिंतामणिधरं पूर्णं तेजोराशिं महाप्रभम् । दृष्ट्वा देवं मुदा युक्तः शंकरः प्रणनाम ह ॥ १९ ॥ ततस्तं पूजयामास तुष्टाव स यथामति । देवदेवं गणाध्यक्षं वक्रतुंडं विधानतः ॥ २० ॥ शिव उवाच । नमस्ते वक्रतुंडाय सर्वसिद्धिप्रदाय च । निराकाराय देवाय साकाराय नमो नमः ॥ २१ ॥ नमः सर्वप्रबोधाय नमः सर्वप्रियंकर । गणानां पतये तुभ्यं गणेशाय नमो नमः ॥ २२ ॥ ब्रह्मणे सृष्टिकर्त्रे ते पालकाय च विष्णवे । संहर्त्रे ते हरायैव गुणेशाय नमो नमः ॥ २३ ॥ ब्रह्माकाराय वै तुभ्यं ब्रह्मभूताय ते नमः । नमः प्रपंचरूपाय प्रपंचानां प्रचालक ॥ २४ ॥ अनंतगुणधाराय ह्यनंतविभवाय ते । अनंतोदररूपाय हेरंबाय नमो