मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 134, कुल 1023 में से
संदर्भ में पढ़ें[शीर्षक: ख. २ अ. ४ | पान ८]
महत्। मरणं भिन्नभावाख्यं गणेशोऽहं कृतस्त्वया ॥५०॥ न भिन्नं परिपश्यामि त्वदृते गणनायक। शांतिदं योगमासाद्य प्रसादात्ते न संशयः ॥५१॥ भक्तिं देहि गणाधीश परां त्वत्पादपद्मयोः। कुरु मां गाणपत्यं त्वं प्रेमयुक्तं च ते पदि ॥५२॥ इत्युक्त्वा विररामाथ तं पुनर्गणपोऽवदत्। मदीया भक्तिरत्यंतं भविष्यति सदाऽचला ॥५३॥ न योगाच्चलनं क्वापि भविष्यति महामुने। सदा योगींद्रपूज्यस्त्वं सर्वमान्यो भविष्यसि ॥५४॥ त्वया कृतमिदं स्तोत्रं शांतियोगप्रदं भवेत्। पठते शृण्वते चैव भुक्तिमुक्तिप्रदायकम् ॥५५॥ इत्युक्त्वा तस्य हृदये ययौ लीनो गजाननः। सदा हृदि गणेशानं पश्यति स्म मुनिः स्वयम् ॥५६॥ इत्याख्यानं नारदीयं कथितं ते प्रजापते। शृणुयाद्यः पठेद्वा यः सोऽपि सद्गतिमाप्नुयात् ॥५७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीय खंडे एकदंतचरिते नारदभक्तिवर्णनं नाम तृतीयोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच। ततो ब्रह्मा ससर्जाऽसौ मुखतो ब्राह्मणान् स्वयम्। बाहुभ्यः क्षत्रियान् सर्वानूरुभ्यो वैश्यकांस्तथा ॥ १ ॥ पद्भ्यः शूद्रान् महादेवः ससर्ज गुणप्रेरितः। संन्यासं शिरसस्तद्वद्वानप्रस्थाश्रमं हृदः ॥ २ ॥ नाभ्याश्च ब्रह्मचर्यं स जंघाभ्यां गृहिनां तथा । वर्णाश्रमान् स वै दृष्ट्वा हर्षितोऽभूत् पितामहः ॥ ३ ॥ ततो धर्मं स्वयं ब्रह्मा ससर्जोरःप्रदेशतः। पृष्ठतोऽधर्मरूपं च सुरदैत्यप्रवर्तकौ ॥ ४ ॥ ततो देवांश्च गंधर्वानप्सरोयक्षकादिकान् । असुरान् यातुधानांश्च ससर्ज निजदेहतः ॥ ५ ॥ सर्पान् पक्षिगणांश्चैव पशुमानवकादिकान्। क्रियायुक्तान् ससर्जाऽसौ स्वदेहं प्रददौ ततः ॥ ६ ॥ ते सर्वे ब्रह्मणो देहात्समुत्पन्ना महौजसः। व्यवहारयुता दक्ष ववृधुर्न तथापि ते ॥ ७ ॥ तेषां स्वर्गप्रमाणं च शृणु मुख्यं प्रजापते। संक्षेपेण प्रवक्ष्यामि प्राकृतं वै कृतं परम् ॥ ८ ॥ प्रथमो महतः सर्गो ब्रह्मणः स तु कथ्यते । तन्मात्राणां द्वितीयस्तु भूतसर्गः प्रकीर्तितः ॥ ९ ॥ वैकारिकस्तृतीयस्तु सर्ग ऐंद्रियकः स्मृतः। इत्येते प्राकृताः सर्गाः संभूता बुद्धिपूर्वकाः ॥ १० ॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पंचमः ॥ ११ ॥ तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः। ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानवः ॥ १२ ॥ अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः । नवमश्चैव कौमारो ज्ञातव्यो विबुधैस्तथा ॥ १३ ॥ विकृताः