मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 139, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ५ पान १३ नानाभोगधरायैवानंतलीलास्वरूपिणे । विघ्नराजाय देवाय भक्तविघ्नविदारिणे ॥ ४५ ॥ सत्यासत्यमयायैवाव्यक्तभेदात्मने नमः । स्वानंदपतये तुभ्यं सदा स्वानंददायिने ॥ ४६ ॥ नमस्ते मूषकारूढसर्वांतरसुभोगिने । नानामृतसमुद्रे च क्रीडाकर नमोऽस्तु ते ॥ ४७ ॥ सिद्धिबुद्धिपते तुभ्यं त्रेधामायाप्रसारिणे । भक्तेभ्यो योगदात्रे च योगाकाराय ते नमः ॥ ४८ ॥ वेदोपनिषदां लभ्यमहावाक्यमयाय ते । ब्रह्मभूताय वै तुभ्यं नमस्ते ब्रह्मराशये ॥ ४९ ॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च विस्मिताः । योगिनः शेषमुख्या वै शंकराद्या महेश्वराः ॥ ५० ॥ तथापि तव जातेन दर्शनेन गजानन । स्फूर्तिः प्राप्ता तया नाथ संस्तुतोऽसि मया प्रभो ॥५१॥ अहो भाग्यमहो भाग्यं येन दृष्टो गजाननः । वेदांतागोचरो गम्यो धन्योऽहं जगतीतले ॥५२॥ धन्यो मे जनको देव तपो ज्ञानं कुलं प्रभो । विद्या व्रतादिकं सर्वं धन्यं ते पाददर्शनात् ॥५३॥ इति स्तुत्वा गणाधीशं भक्त्या परमया युतः । सरोमांचोऽभवत्तत्र प्रणनाम पुनः पुनः ॥५४॥ तमुत्थाप्य गणाधीशोऽगादीत्तं भक्तमुत्तमम् । वरं वृणु महाभाग यस्ते मनसि वर्तते ॥५५॥ कृतं त्वया मदीयं यत् स्तवनं तोषकारकम् । पठते शृण्वते चापि सर्वदं प्रभविष्यति ॥५६॥ पुत्रपौत्रादिविभवप्रदं शोकविनाशनम् । धनधान्यसमृद्ध्यादिप्रदं भावि न संशयः ॥५७॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदायकम् । दृढभक्तिकरं मे च भविष्यति न संशयः ॥५८॥ इति ब्रुवंतं विघ्नेशमुवाच मनुसत्तमः । स्वायंभुवः प्रसन्नात्मा कृतांजलिरुदारधीः ॥५९॥ मनुरुवाच । यदि प्रसन्नतां यातस्तदा देहि गजानन । भक्तिं दृढां त्वदीयां मे यया मोहो न विद्यते ॥६०॥ सृष्टेः करणसामर्थ्यं धर्मपालनमुत्तमम् । प्रजारक्षकतां देहि देव देवेश मे चिरम् ॥६१॥ यद्यदिच्छामि विघ्नेश तत्तत् सिध्यतु सर्वदा । तव भक्तेषु वासो मे सदा भवतु मानद ॥६२॥ तथेति तमुवाचादावंतर्धानं चकार ह । गणेशानो निजे लोकेऽगमद्वै भक्तवत्सलः ॥६३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते स्वायंभुववरप्रदानं नाम पंचमोऽध्यायः ॥