मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 171, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. २१ पान ४५ प्रणाम सः। पादपद्मे शिरः स्थाप्य रुरोद भयविह्वलः ॥३४॥ ततोऽसौ करुणाविष्टो जडभरतस्तमब्रवीत् । उत्थाप्य नृपशार्दूलं प्रश्रयाऽवनतं वचः ॥३५॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते जडभरतरहूगणमिलनो नाम विंशतितमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ जडभरत उवाच । आह मांगिरसो नाम जडभरतः प्रकथ्यते । स्वायंभुवश्च भरतोऽधुना जडश्च तेन वै ॥१॥ मा चिंतां कुरु राजर्षे ह्यज्ञानेन त्वया कृतम् । हेलनं मम देहस्य पापदं न भविष्यति ॥२॥ गच्छ राजन्यथेच्छं त्वं मत्तो वै न भयं तव । गमिष्यामि स्वतंत्रोऽहं प्रारब्धेन नियंत्रितः ॥३॥ मुद्गल उवाच । तस्य योगींद्रमुख्यस्य श्रुत्वा वचनमुत्तमम् । रहूगण उवाचाथ तं प्रणम्य महायशाः ॥४॥ रहूगण उवाच । धन्यं कुलं मदीयं वै पितरौ ज्ञानमाश्रमः । तपो विद्या यशो दानं तवांध्रियुगदर्शनात् ॥५॥ अहं सिंधुमहीपालो रहूगण इति स्मृतः । राज्यादिविषयं त्यक्त्वा निःसृतो मुनिसत्तम ॥६॥ शांत्यर्थं कपिलं यामि गौतमीतीरवासिनम् । त्वं साक्षाद् ब्रह्मरूपश्च दैवेन दर्शनं गतः ॥७॥ मां शिष्यं तारय मुने योगबोधेन सत्तम । साक्षात् शांतिं वद विभो यया शांतो भवाम्यहम् ॥८॥ तस्य तद्वचनं श्रुत्वा कृपया परया युतः । जगाद तं नृपेंद्रं स आंगिरसो महाद्युतिः ॥९॥ शृणु राजन् त्वया पृष्टं वेदगुह्यं च दुर्गमम् । कथयामि तथापि त्वां योगशांतिकरं परम् ॥१०॥ देहश्चतुर्विधः प्रोक्तस्तत्र देही चतुर्विधः। भ्रांत्या भिन्नत्वमाश्रित्यैकोऽपि भाति तदात्मकः ॥११॥ देहानां ब्रह्म यत्प्रोक्तं बिंदुमात्रं च दृश्यते। देहीनां ब्रह्मरूपं वै सोऽहं मात्रात्मकं किल ॥१२॥ तयोः संयोग एवाऽसौ बोधात्मक उदाहृतः । स्वतोत्थानमिदं ब्रह्म विकल्पाद्द्विविधं मतम् ॥१३॥ बोधनाशे महीपाल उत्थानं जायते न च । सांख्यरूपं हि तद्ब्रह्म केवलं स्वसुखे रतम् ॥१४॥ यत्र परसुखं नास्ति तत्र वै स्वसुखं कथम् । ततः परत उत्थानयुक्तं ब्रह्म प्रकीर्तितम् ॥१५॥ तत्रोत्थानस्य बीजं यत्स्थितं भिन्नात्मकं परम् । स्वसौख्यनिष्ठरूपं हि बोधहीनप्रभावतः ॥ १६ ॥ स्वतः परत उत्थानहीनं स्वानंदवाचकम् । संयोगाभेदरूपं वै जानीहि नृपसत्तम ॥१७॥ स्वानंदं पंचभेदं च स्वयं सर्वत्र संस्थितम् । सत्यासत्यसमं चेति नेतिरूपं चतुर्थकम् ॥१८॥ स्वतः परत उत्थानमेतन्नाम प्रकीर्तितम् । तयोरनुभवो यः स्यात्तस्य रूपं