भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 173, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 173

खं. २ अ. २२ पान ४७ बुद्धेः पते धियो दात्रे सर्वविद्याकलात्मने । ज्ञानरूपप्रकाशाय गणेशाय नमो नमः ॥७॥ मूषकारूढ वै तुभ्यं चतुर्बाहुधराय च। स्वानंदवासिने देव वक्रतुंडाय ते नमः ॥८॥ नानाविहारयुक्तायानंतरूपाय ते नमः । अमेयाय सदायोगशांतिस्थाय नमो नमः ॥९॥ धन्योऽहं कृतकृत्योऽहं येन दृष्टो गजाननः । वेदादौ गोचरोऽयं न कृपया सहसाऽऽगतः ॥१०॥ मया किं ते कृतं देव दर्शनार्थ किमागतः । भक्त्या समं न किंचित्ते प्रियं ज्ञातं मयाधुना ॥११॥ भक्त्या त्वां हृदि संध्यायन् संस्थितो जडवत्प्रभो । त्वमेव मोहितो भक्त्या मम संन्निधिगः कृतः ॥१२॥ अहो भक्तिसमं किंचिन्नैव दृष्टं न च श्रुतम् । यया त्वं शांतियोगस्थो मोहितः सहसाऽऽगतः ॥१३॥ त्वदीयांशसमुत्पन्नं सकलं ब्रह्मनायक । किं ददामि गणेशान येन तुष्टो भविष्यसि ॥१४॥ अतस्त्वां नमनं कुर्वे देहोऽयं ते निवेदितः । वरं देहि महाबाहो येन तृप्तो भवाम्यहम् ॥१५॥ भक्तिं दृढां त्वच्चरणे व्यभिचारविवर्जिताम् । देहि नाथ दयासिंधो नान्यद् याचे कदाचन ॥१६॥ एवमुक्त्वा गणाध्यक्षं ननाम स पुनः पुनः । प्रेम्णा ननर्त योगींद्रस्तमुवाच गणाधिपः ॥१७॥ गणेश उवाच । भविता सुदृढा भक्तिर्मम ते मुनिसत्तम । व्यभिचारविहीना ते न चांगिरस संशयः ॥१८॥ त्वया कृतमिदं स्तोत्रं मदीयं योगशांतिदम् । भविष्यति महाभाग मम प्रीतिकरं परम् ॥१९॥ यं यमिच्छति तं तं वै दास्यामि स्तोत्रपाठकः । शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ॥२०॥ एवमुक्त्वां- तर्दधेऽसौ गणनाथः प्रजापते । स मुनिर्भक्तिसंयुक्तोऽभवत्तत्रैव संस्थितः ॥२१॥ अंते गणेशरूपोऽसौ जातो योगींद्रसत्तमः । गुहा तत्र प्रसिद्धा वै वर्ततेऽद्य महामुनेः ॥२२॥ गणेशोत्तरभागे च संमुखे क्रोशदूरकम् । स्थानमांगिरसस्याऽपि भरतस्य जडात्मनः ॥२३॥ कुर्वंति दर्शनं तस्य तत्र ये मानवादयः । तेषां मुक्तिर्भवेद्दक्ष शाश्वती नात्र संशयः ॥२४॥ चरितं भरतस्येदं कथितं परमाद्भुतम् । शृणुयाद्यो नरो भक्त्या पठेद्वा भुक्तिमुक्तिदम् ॥२५॥ एवमाद्याश्च राजानः प्रियव्रतकुलेऽभवन् । उत्पन्नाः सर्वधर्मज्ञा नानादेवपरायणाः ॥२६॥ ॥ ओमिति श्रीमद्दांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते जडभरतचरितं नाम द्वाविंशोऽध्यायः ॥