मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 18, कुल 1023 में से
संदर्भ में पढ़ें[header] खं. १ अ. ७ पान १८ [/header]
पुरुषसत्तमः । मोहितः पूर्णभावेन तदधीनोऽभवत्सदा ॥८॥ संवीक्षिता महामाया पुरुषेण महात्मना । हावभावयुता तत्र संस्थिता भक्तिभावतः ॥९॥ तस्यां सत्तात्मकं वीर्यं पुरुषेण प्रकाशकम् । निक्षिप्तं सहसा देवि तेन सा गर्भवतीभूत् ॥१०॥ स गर्भो ववृधे तत्र तेजसा स्वेन संवृतः । महता कालयोंगेन पूर्णो जातः प्रतापवान् ॥११॥ समये सुषुवे सा तं पुत्रं तेजो- मयं परम् । तस्य नामाऽभवल्लोके महानित्यभिविश्रुतम् ॥१२॥ अंतस्तु यत्स्थितं देवि सर्वांतर्यामि तत्परम् । लोकेषु च महत्तत्वं ज्ञातव्यं तत्समाविना ॥१३॥ सर्वेषामादिभूतोऽयं महानात्माऽभवत्प्रभुः । ज्येष्ठोऽयं तत्त्वजातीनां हृदि तेषां समास्थितः ॥१४॥ महता च ततः सृष्टं यदहंकाररूपकम् । स एव त्रिविधो जातो भिन्नमूर्तिः प्रतापवान् ॥१५॥ अहं सर्वत्र तिष्ठामि सदाधारमिदं स्मृतम् । तेनाहंकारनामा स सदाहंकरणात् शिवे ॥१६॥ स एव बाह्यभावेन स्थितः सर्वत्र सर्वराट् । इच्छितं महता यद्वै तत् कर्तुं सुसमाहितः ॥१७॥ त्रिविधोऽसौ गुणैस्तत्र तन्निबोध जगन्मयि । सात्त्विको राजसश्चैव तामसः कथ्यते बुधैः ॥१८॥ तेनाहंकरणस्यापि त्रिशक्तित्वं समागतम् । सात्त्विकी ज्ञानशक्तिश्च तया भावः प्रबुध्यते ॥१९॥ राजसी या क्रियाशक्तिस्तया कार्यं प्रवर्तते । तामसी द्रव्यशक्तिर्या देहरूपा प्रकथ्यते ॥२०॥ तत्रादौ तामसी शक्तिः प्रेरिता विश्वयोनिना । निर्ममे शब्दरूपं सा तेनाकाशं विनिर्मितम् ॥२१॥ आकाशेन स्पर्श एवं निर्मितः सर्वसिद्धये । स्पर्शेन निर्मितो वायुर्महाबलयुतः प्रभुः ॥२२॥ वायुना निर्मितं रूपं तेजोरूपेण निर्मितम् । तेजसश्च रसोत्पत्ती रसादापो विनिःसृताः ॥२३॥ अद्भिश्च निर्मितो गंधो गंधाद्भूभिरजायत । तमोगुणमयी सृष्टिरेषा जाता महाद्भुता ॥२४॥ तन्मात्रा भूतसर्गश्च पंचपंचात्मकः स्वराट् । पंचभूतात्मको देहः सर्वत्रैव प्रदृश्यते ॥२५॥ ततो राजसशक्त्या च पंचभूतमयानि वै । इंद्रियाणि प्रसृष्टानि क्रियारूपाणि तानि वै ॥२६॥ पंच ज्ञानेंद्रियाण्याहुर्ज्ञानरूपधराणि च । जिह्वा चक्षुस्त्वचा नासा कर्णश्चैवाऽत्र पंचमः ॥२७॥ कर्मेंद्रियाणि पंचैव हस्तौ पादौ गुदं च वाक् । लिंगं पंचममत्रैव एभिः संजायते क्रिया ॥२८॥ पंच प्राणास्तथा ज्ञेयाः प्राणो व्यानस्त्वपानकः । उदानश्च समानो वै राजसाः पंच वायवः ॥२९॥ सप्तधातुविभागार्थं क्रिया- रूपा उदाहृताः । एषां क्रियात्मिका सृष्टी राजसी कथिता प्रिये ॥३०॥ सात्त्विक्या मायया देवा इंद्रियाणां विनिर्मिताः । दिशो वायुश्च वरुणोऽश्विनौ सूर्यः प्रकीर्तितः ॥३१॥ एता ज्ञानेंद्रियाणां च देवताः परिकीर्तिताः । अग्निविष्णुः प्रजापाल इंद्रो मित्रश्च पंचमः ॥३२॥ एताः कर्मेंद्रियाणां वै देवताः परिकीर्तिताः । सात्त्विकी सृष्टिरित्युक्ता दशदेवस्वरूपिणी ॥३३॥