भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 192, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 192

पालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥५३॥ वक्रतुंडाय देवाय लंबोदरधराय च। सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥५४॥ यं स्तोतुं न समर्थाश्च वेदाः सांगाः कदाचन । वयं तत्र च के देव वेदज्ञैर्ज्ञानधरा यतः ॥५५॥ एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः । धृत्वा मनसि तद्रूपं भक्तिभावेन यंत्रिताः ॥५६॥ पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः । कृतांजलिपुटा देवं गणेशं सर्वनायकम् ॥५७॥ यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् । पदभ्रष्टा वयं तेन कृताः कर्म- विवर्जिताः ॥५८॥ भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् । एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥५९॥ देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः । उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥६०॥ गजासुरवधं देवा मुनयश्च सुदुष्करम् । तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥६१॥ मदीया भक्तिरचला भविष्यति सुदुर्लभा । पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥६२॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥६३॥ पठतां शृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् । दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥६४॥ इत्युक्त्वांतर्दधे देवो गणेशः सर्वसिद्धिदः । वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥६५॥ जातकर्मादिकं सर्वं चकार मुनिसत्तमः । ब्राह्मणैर्हर्षितो भूत्वा पत्न्या स्वयमुदारधीः ॥६६॥ स बालो ववृधे तत्र हर्षयन् मातरं निजाम् । पितरं चेष्टितैः स्वीयैर्बालक्रीडनकैस्तथा ॥६७॥ पंचमे व्रतबंधं च चकार मुनिसत्तमः । वेदानध्यापयामास सांगान्स्तान् गणपाय च ॥६८॥ विवाहमकरोत्तस्य सिद्धिबुद्धिश्च शाश्वते । मरीचेश्च सुते जाते दत्ते तेन विधानतः ॥६९॥ इति ते कथितं सर्वं पराशरसुतस्य च । चरितं गणनांथस्य दैत्यस्य शृणु चेष्टितम् ॥७०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा तं सभायां वै संस्थितं दैत्यनायकम् । आययौ सहसा तत्र नारदो कौतुकी मुनिः ॥१॥ दैत्येन मानितो दक्ष तमुवाच महामुनिः । शृणु दैत्याधिप प्राज्ञ हितं ते वचनं महत् ॥२॥ अरण्ये मुनिभिर्देवैर्गणेशो भक्तिभावितः । आराधितो वधार्थं ते पराशरसुतोऽभवत् ॥३॥ इत्युक्त्वा प्रययौ तस्मान्नारदो दिव्यदर्शनः । दैत्यो रोषसमाविष्टो देवर्षीणां वधे रतः ॥४॥ आययौ यत्र देवाश्च मुनयः संस्थिताः खलः । दैत्यैः समावृतः