मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 192, कुल 1023 में से
संदर्भ में पढ़ेंपालकाय त्रिभिर्हीनगुणेशाय नमो नमः ॥५३॥ वक्रतुंडाय देवाय लंबोदरधराय च। सर्वेषां हृदि संस्थाय विनायक नमोऽस्तु ते ॥५४॥ यं स्तोतुं न समर्थाश्च वेदाः सांगाः कदाचन । वयं तत्र च के देव वेदज्ञैर्ज्ञानधरा यतः ॥५५॥ एवं स्तुत्वा गणेशानं पेतुस्ते तस्य पादयोः । धृत्वा मनसि तद्रूपं भक्तिभावेन यंत्रिताः ॥५६॥ पुनरुत्थाय ते सर्वे तमूचुर्भयविह्वलाः । कृतांजलिपुटा देवं गणेशं सर्वनायकम् ॥५७॥ यदि तुष्टोऽसि देवेश जहि दैत्यं गजासुरम् । पदभ्रष्टा वयं तेन कृताः कर्म- विवर्जिताः ॥५८॥ भक्तिं ते देहि विघ्नेश सर्वदुःखविनाशिनीम् । एष एव वरोस्माभिर्वाञ्छितो द्विरदानन ॥५९॥ देवर्षीणां वचः श्रुत्वा भक्तवत्सलभावतः । उवाच तान् गणाध्यक्षो हर्षयन् वचनं शुभम् ॥६०॥ गजासुरवधं देवा मुनयश्च सुदुष्करम् । तथापि भवतां वाक्यात् करिष्येऽहं न संशयः ॥६१॥ मदीया भक्तिरचला भविष्यति सुदुर्लभा । पराशरस्य पुत्रोऽहं भविष्यामि वधाय वै ॥६२॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥६३॥ पठतां शृण्वतां विप्रा देवाः सर्वार्थसिद्धिदम् । दुःखघ्नं सततं तेषां भविष्यति सुबुद्धिदम् ॥६४॥ इत्युक्त्वांतर्दधे देवो गणेशः सर्वसिद्धिदः । वत्सलोदरगो भूत्वा पराशरसुतोऽभवत् ॥६५॥ जातकर्मादिकं सर्वं चकार मुनिसत्तमः । ब्राह्मणैर्हर्षितो भूत्वा पत्न्या स्वयमुदारधीः ॥६६॥ स बालो ववृधे तत्र हर्षयन् मातरं निजाम् । पितरं चेष्टितैः स्वीयैर्बालक्रीडनकैस्तथा ॥६७॥ पंचमे व्रतबंधं च चकार मुनिसत्तमः । वेदानध्यापयामास सांगान्स्तान् गणपाय च ॥६८॥ विवाहमकरोत्तस्य सिद्धिबुद्धिश्च शाश्वते । मरीचेश्च सुते जाते दत्ते तेन विधानतः ॥६९॥ इति ते कथितं सर्वं पराशरसुतस्य च । चरितं गणनांथस्य दैत्यस्य शृणु चेष्टितम् ॥७०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते पराशरसुतोत्पत्तिकथनं नामैकत्रिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । एकदा तं सभायां वै संस्थितं दैत्यनायकम् । आययौ सहसा तत्र नारदो कौतुकी मुनिः ॥१॥ दैत्येन मानितो दक्ष तमुवाच महामुनिः । शृणु दैत्याधिप प्राज्ञ हितं ते वचनं महत् ॥२॥ अरण्ये मुनिभिर्देवैर्गणेशो भक्तिभावितः । आराधितो वधार्थं ते पराशरसुतोऽभवत् ॥३॥ इत्युक्त्वा प्रययौ तस्मान्नारदो दिव्यदर्शनः । दैत्यो रोषसमाविष्टो देवर्षीणां वधे रतः ॥४॥ आययौ यत्र देवाश्च मुनयः संस्थिताः खलः । दैत्यैः समावृतः