मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 196, कुल 1023 में से
संदर्भ में पढ़ेंमया प्राप्तो गजाननः ॥२५॥ तं प्रणम्य महाभक्त्या दैत्येशो वरकांक्षया । जगाद गणनाथं वै भावभावितमादरात् ॥२६॥ ब्रह्म ब्रह्मेश जहि मां दासं ते गणनायक । वरं प्रयच्छ मे त्वेनं नमामि त्वां पुनः पुनः ॥ २७ ॥ न संसारसुखे चित्तं मदीयं ते प्रदर्शनात् । त्वया हतो भविष्यामि ब्रह्मभूतो न संशयः ॥२८॥ प्रार्थयंतं महादैत्यमंकुशेन जघान तम् । गणेशः सोऽपि सायुज्यं तस्य प्राप्तः प्रजापते ॥ २९ ॥ शंकराद्याः सुरास्तत्र मुनयो मोहसंयुताः । न विदुश्चेष्टितं तस्य बभुर्भ्रांता इव स्थिताः ॥ ३० ॥ हतं दैत्यं समालोक्य हर्षितास्ते तदाऽभवन् । गणेशोऽपि स्वकं रूपं लीनं कृत्वा स्थितः पुरः ॥३१॥ पूर्वाकारं च तं दृष्ट्वा तुष्टुवुस्ते सुरर्षयः । संपूज्य भक्तिभावेन नेमुश्च ननृतुः पुरः ॥३२॥ देवर्षय ऊचुः । नमस्ते गजवक्त्राय गजाननस्वरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ ३३ ॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानंदवासिने नमः ॥३४॥ रजसा सृष्टिकर्त्रे ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥३५॥ प्रकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ॥३६॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शांतिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ३७ ॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ३८ ॥ देवरक्षाकरायैव विघ्नेशाय नमो नमः । वक्रतुंडाय धीराय चैकदंताय ते नमः ॥ ३९ ॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्मांडॆ मृत्युसंहीनो महाश्चर्यं कृतं विभो ॥४०॥ हते दैत्येऽधुना कृत्स्नं जगत् संतोषमेष्यति । स्वाहास्वधायुतं पूर्णं स्वधर्मस्थं भविष्यति ॥४१॥ एवमुक्त्वा गणाधीशं सर्वे देवर्षयस्ततः । प्रणम्य तूष्णींभावं ते संप्राप्ता विगतज्वराः ॥ ४२ ॥ कर्णौ संपीड्य गणपचरणे शिरसो ध्वनिः । मधुरः प्रकृतस्तैस्तु तेन तुष्टो गजाननः ॥४३॥ तानुवाच मदीया ये भक्ताः परमभाविताः । तैश्च नित्यं प्रकर्तव्यं भवद्भिर्नमनं यथा ॥ ४४ ॥ तेभ्योऽहं परमप्रीतो दास्यामि मनसीप्सितम् । एतादृशं प्रियं मे च नमनं नात्र संशयः ॥४५॥ एवमुक्त्वा स तान् सर्वान् सिद्धिबुद्ध्यादिसंयुतः । अंतर्दधे ततो देवा मुनयः स्वस्थलं ययुः ॥४६॥ पिता पराशरस्तस्य माता वै वत्सला प्रभोः । शोकसागरमग्नौ तौ श्रुत्वा वार्त्तां निपेततुः ॥ ४७ ॥ ततः कारुणिको देवस्तयोश्चित्तप्रकाशकः । योगशांतिमयं ज्ञानं बोधयामास शाश्वतम् ॥ ४८ ॥ मूर्तिं मदीयां वै कृत्वा संस्थाप्य ब्राह्मणैः सह । तस्याः पूजा प्रकर्तव्या भवद्भ्यां नित्यमादरात् ॥४९॥ देहव्यापारिता तत्र कर्तव्या हृदि शांतिदम् ।