मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 198, कुल 1023 में से
संदर्भ में पढ़ेंभागवतं तथा । भविष्यं ब्रह्मवैवर्तं मार्कण्डेयं च वामनम् ॥१७॥ आग्नेयं वायवं मात्स्यं वाराहं कौर्ममेव च । लैङ्गं गारुडकं स्कांदं ब्रह्मांडं च प्रजापते ॥१८॥ अष्टादश पुराणानि कथितानि विशेषतः । तथैवोपपुराणानि कथयामि प्रजापते ॥१९॥ गाणेशं नारदीयं च नारसिंहं च कापिलम् । नांदिकेयं च वारुण्यं दौर्वाससमथांबिकम् ॥२०॥ कालिकेयं च मारीचंमौशनसं च भार्गवम् । सानत्कुमारकं चैव कौमारं च प्रजापते ॥२१॥ माहेश्वरं च सौरं वै पाराशर्यं च मौद्गलम् । अष्टादश पुराणानि कथितानि समासतः ॥२२॥ धर्माधर्मव्यवस्थार्थं चक्रे भारतमुत्तमम् । एतत्सर्वं स जग्राह व्यासात् सूतो महामतिः॥२३॥ एतानि गाणपत्यानि ज्ञातव्यानि विचक्षणैः। अन्यानि सेतिहासानि गणेशस्तुतिमंति वै॥२४॥ श्रुत्वा सुवचनं तस्य मोहिता मुनयः पुनः । ऊचुः सूतं महाप्रज्ञं संशयच्छेदनाय ते ॥२५॥ शौनकाद्या ऊचुः । कथं सूत शिवादीनां पुराणानि महामते । प्रोक्तानि गाणपत्यानि वद संशयमुक्तये ॥२६॥ तेषां वचनमाकर्ण्य सूतः सर्वार्थकोविदः । जगाद तान् महाबुद्धिः संशयच्छेदनं वचः ॥२७॥ सूत उवाच । गणेशस्य स्वरूपं यत् पंचधा व्यासभाषितम् । ज्ञातव्यं मुनिशार्दूलास्तेषां भेदं वदाम्यहम् ॥२८॥ आद्यं ब्राह्मं पुराणं यद्गाणपत्यं प्रकीर्तितम् । निर्गुणो गणपस्तत्र वर्णितो ब्रह्मवाचकः ॥२९॥ हृदयेषु जनानां वै बुद्धीनां यत् प्रकाशकृत् । तदेव तस्य रूपं तद्ध्यायन्ति त्यागिनः प्रभोः ॥३०॥ आकारादि विहीनं तत् साक्षिभूतं सदा परम् । मनोवाणीविहीनं च ज्ञातव्यं न्यासिभिर्मुने ॥३१॥ तं ध्यायन्ति महाभागा योगिनश्च चतुर्विधाः । संन्यासिनो हृदिस्थं ते गणेशं बुद्धिचालकम् ॥३२॥ अन्यदंत्यं पुराणं यद्ब्रह्मांडं गणपस्य तत् । तत्रोंकारमयाकारः सगुणो वर्णितः प्रभुः ॥३३॥ जगद्विहारकारी स पंचधा प्रबभूव ह । प्रणवः प्रणवाकारो गजानन उदाहृतः ॥३४॥ अकारोकारकौ चैव मकारो नाद आबभौ । बिंदुः पंच विभज्यात्मा नानाखेलं करोति सः ॥३५॥ जगदाकाररूपेण स्थितं विघ्नेशमादरात् । ध्यायन्ति जगदात्मानं प्रणवाकृतिलक्षणम् ॥३६॥ स्मरंति तं द्विजा नित्यं वेदादौ कर्मसिद्धये । ब्रह्मांडाकारविघ्नेशः सगुणः परिकीर्तितः ॥३७॥ तथैवोपपुराणेषु गाणेशं चाद्यमंजसा । पुराणं तद्गणेशस्य भिन्नमूर्तिधरस्य च ॥३८॥ सगुणं जगदाकारं निर्गुणं बुद्धिचालकम् । तयोर्ज्ञानप्रसिद्ध्यर्थं मूर्तिमंतं स्तुवंति ते ॥३९॥ गजवक्रादिचिह्नैश्च चिह्नितं गणनायकम् । मंत्रादिना भजंते तं भावयुक्ता महर्षयः ॥४०॥ तस्योपासनमात्रेण सगुणं निर्गुणं तथा । सुलभं प्राप्यते ब्रह्म योगिभिस्तापसोत्तमैः ॥४१॥ अंत्यं मौद्गलमेतच्च पुराणोपनिषत्परम् । तत्र विघ्नेशमाहात्म्यं योगाकारं