भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 224, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 224

दुर्मतिः ॥२५॥ तारकं प्रजगादाऽसौ गच्छ देवीं महाबल । सामयुक्तं वदाऽऽशु त्वं महामायां महासुर ॥२६॥ तं प्रणम्य ययौ वेगाच्छक्तेः सन्निधिमादरात् । तारको मानितस्तैस्तु देवैः परमदारुणः ॥२७॥ नत्वा शक्तिं महामायां कृतांजलिपुटो- ऽसुरः । तारकस्तामुवाचाऽथ सामयुक्तं वचः खलः ॥२८॥ तारकासुर उवाच । शृणु शक्ते महामाये आगतः स मदासुरः । दर्शनार्थं च ते मातस्तेनाऽहं प्रेषितोऽधुना ॥२९॥ तेनोदितं च शक्ते त्वं वचनं शृणु मानदे । भक्तेन भक्तिसंयुक्तं भावज्ञे जगदंबिके ॥३०॥ अस्माकं कुलदेवी तु त्वमेवात्र न संशयः । असुरा हि वयं सर्वे त्वदीयाः सेवका मताः ॥३१॥ यत्राऽसुरा विराजंति सुरास्तत्र हतप्रभाः । भवंति नात्र संदेहः स्वभावाच्छत्रवो मताः ॥३२॥ अतो देवान् समुत्सृज्य तिष्ठ त्वं पूजिता- ऽसुरैः । अस्माकं शत्रवो देवास्त्वदीयाः शत्रवो मताः ॥३३॥ प्रणमंतो वयं यावत्तावद्देवनिकृंतनम् । करिष्यामो न संदेहस्तस्मान् मातस्त्यजाऽऽशु तान् ॥३४॥ एकं पक्षं समाश्रित्य तिष्ठ त्वं जगदंबिके। असुराणां सुराणां वा पूजिता सततं परे ॥३५॥ इत्येवं कथितं देवि मदस्य वचनं मया । कुरु त्वं भक्तराजस्य पालनं परमादरात् ॥३६॥ गृत्समद उवाच । मदस्य वचनं क्रूरं तारकेण प्रकाशितम् । तच्छ्रुत्वा कुपिता देवी तं जगाद महासुरम् ॥३७॥ शक्तिरुवाच । मदीयं जगदंबेति नाम वेदे प्रकाशितम् । केन मार्गेण दैत्येश पक्षमेकं समाश्रये ॥३८॥ यथा देवास्तथा दैत्या मान्या मे नात्र संशयः । देवैर्दैत्यैश्च कर्तव्यः स्वस्वधर्मो महासुर ॥३९॥ पाताले राज्यमानंदाद्दैत्यैः कर्तव्यमंजसा । स्वर्गेषु सर्वदा देवैः कर्तव्यं स्वस्वभावजम् ॥४०॥ विपरीते हनिष्यामि क्रुद्धाऽहं नात्र संशयः । अतो दैत्यैः प्रगंतव्यं पाताले वै मदाज्ञया ॥४१॥ शक्तेर्वचनमाकर्ण्य क्रुद्धः सोऽपि महासुरः । उवाच तां महाशक्तिं भयं त्यक्त्वा प्रभावतः ॥४२॥ तारक उवाच । मा गर्वं कुरु शक्ते त्वं शत्रुपक्षसमाश्रिते । तपसा वयमुत्कृष्टा जाताः स्वस्य न संशयः ॥४३॥ कर्मणा त्वं प्रसृजसि जगंति जगदंबिके । कर्माधीनमिदं सर्वं तत्र त्वं किं करिष्यसि ॥४४॥ कर्मणा दैत्यराजश्च प्रतापी स मदासुरः । ब्रह्मांडाधिपतिर्भूत्वा देवान् सर्वान् हनिष्यति ॥४५॥ युद्धाय सज्ज त्वं देवि देवैःसह जगन्मयि । असुरैश्च महाभागैर्गच्छामि मदसंनिधौ ॥४६॥ एवमुक्त्वा महाशक्तिं तारकः क्रोधसंयुतः । जगाम शक्तिलोकाद्वै मददैत्यस्य संनिधौ ॥४७॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते तारकासुरसामवर्णनं नाम षट्चत्वारिंशोऽध्यायः ॥