भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 226, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 226

खं. २ अ. ४७ पान १०० स्वपरज्ञानकारकः ॥२६॥ प्रबोध्य केचिद्दैत्यांस्तान् सुरा जघ्नुर्महाबलाः । असुराश्च सुरांस्तद्वन् महाक्रोधसमन्विताः ॥२७॥ शक्तयः कुपितास्तत्र दैत्यांश्चैव प्रजहिरे । शस्त्रास्त्रैर्विविधैः सर्वाः पिपिषुश्चासुरेश्वरान् ॥२८॥ दैत्याः प्रकुपिता अन्ये शस्त्रास्त्रैर्देवमंडलम् । छिन्नं भिन्नमिमे चक्रुः क्रोधयुक्ता महाबलाः ॥२९॥ मेरुशीताचलग्रख्या दैत्या देवाः स्थिता बभुः । चेलुर्न च पदं तत्र परस्परवधे रताः ॥३०॥ अभवन् शोणितौघानां महानद्यः समंततः । देवदैत्यशरीरेभ्यः प्रसूताश्च सहस्रशः ॥३१॥ मेदोमांसमहापंकाः प्रपेतुर्धरणीतले । देवाश्च शतशो दैत्या गतप्राणा रणेऽसुर ॥३२॥ मांसं कर्दमरूपेण यत्र तत्र स्थितं रणे । मृतानां न च संख्याऽऽसीन् मार्गरोधनकारिणाम् ॥३३॥ असृक्प्रवाहजस्तत्र पूरः संददृशे जनैः । जलौघ इव दैत्येंद्र महामोहप्रवर्धनः ॥३४॥ मृतैर्गजैस्तथा भग्नै रथैर्वाजिभिरेव च । नानापशुगणैरुष्ट्रैः पक्षिभिर्दुर्गमं कृतम् ॥३५॥ मुमूर्षवस्तत्र पेतुर्मृताः केचिच्च खंडिताः । तदपि क्रोधसंयुक्ताः प्रयत्नं चक्रुराहताः ॥३६॥ एवं दश दिनान्येव दिवारात्रं महारणम् । बभूव समये तस्मिन् देवदैत्यसमुद्भवम् ॥३७॥ पलायनपरा देवास्ततो जाता महारणे । दशदिक्षु भयोद्विग्नाः पलायंताऽसुरेश्वर ॥३८॥ तद् दृष्ट्वा परमाश्चर्यं वज्रभृद्देवपैर्वृतः । संग्राममकरोद्धोरं दैत्यनाशनकरं परम् ॥३९॥ वज्रपातेनासुरान् स चूर्णयामास वेगतः । देवेंद्रो विविधैरन्यैर्मयाद्या आयुधैस्तथा ॥४०॥ मृता दैत्यगणाः केचित् भृशं केचिच्च मूर्च्छिताः । मुमूर्षवः परे तत्र कृता वै वज्रिणाऽभवन् ॥४१॥ शक्त्यादिशस्त्रपातेन वह्निचंद्रयमादयः । असुरान् मारयामासुः क्रोधयुक्ताः सुरेश्वराः ॥४२॥ ततो भग्नं बलं सर्वं दैत्यानां भयसंकुलम् । दुद्राव दिक्षु सर्वासु त्रातारं नाभ्यपद्यत ॥४३॥ ततः संहर्षिता देवास्तथा देवगणाः परे । जयशक्ते महामायेऽवदंस्ते जय सर्वदा ॥४४॥ ततः क्रोधसमायुक्तस्तारको दैत्यपैर्वृतः । आययौ क्रोधदीप्ताक्षो योद्धुं शक्रेण वीर्यवान् ॥४५॥ आगत्य रणभूमिं स तमुवाच पुरंदरम् । गर्वयुक्तं महोग्रं च मोहितो मदसंयुतः ॥४६॥ तारक उवाच । किं त्वं युध्यसि देवेंद्र दैत्यपैः परमाहतैः । मया युक्तैकबाणेन न समोऽसि सुराधिप ॥४७॥ बलेन यदि संयुक्तस्तदा किममरावतीम् । त्यक्तवान् वद मे वाक्यं वृथा मृत्युमवाप्स्यसि ॥४८॥ इति तस्य वचः श्रुत्वा सुरेंद्रस्तमुवाच ह । क्रोधसंरक्तचक्षुर्भर्भक्षयन्निव दानवान् ॥४९॥ इंद्र उवाच । तारक त्वं वल्गसि किं पश्य मे पौरुषं महत् । आसुरं प्रहरिष्यामि सैन्यं ते पश्यतो महत् ॥५०॥ पश्चात्त्वां च क्रमेणाऽहं मदं सबलवाहनम् । हत्वाऽभिवाद्य शक्तिं च

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 226, कुल 1023 में से · BharatKosha