मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 228, कुल 1023 में से
संदर्भ में पढ़ेंख. २ अ. ४८ पान १०२ तत्रापि पुरुषोऽत्यंतं भक्षयामास चामरान् ॥१९॥ ततः क्रोधसमायुक्तो महेंद्रो वारुणं महत् । अस्त्रं धनुषि संगृह्य मृधे तत्याज दारुणम् ॥२०॥ तस्माच्च जलधाराऽभूत् समंतान्निःसृता बहु । ववर्षुरतुलां वृष्टिं मेघाः सर्वत्र गर्जितैः ॥२१॥ जलौघेन महावह्निः प्रशांतः सहसा कृतः । अस्त्रेण पुरुषः सोऽपि पतितो रणमूर्धनि ॥२२॥ ततो देवगणाः सर्वे सावधाना बभूविरे । दैत्या वृष्ट्या च वातेन पीडिता बलसंयुताः ॥२३॥ विद्युज्जवालाभिरत्यंतं दग्धाः केचिन् महासुराः । जलौघेन तथा केचिद्वाहिताश्च सवाहनाः ॥२४॥ दैत्यानां प्रबलं सैन्यं पीडितं वारुणेन च । हाहाकाररवा दैत्या ययुर्मृत्युं भयानकम् ॥२५॥ ततः स तारको दैत्यः क्रोधसंरक्तलोचनः । वायव्यस्त्रं तन्निवृत्त्यर्थं संदधेऽतिभयानकम् ॥२६॥ मुमोच धनुराकृष्य देवसैन्ये महासुरः । तेन वारुणमस्त्रं च ग्रस्तं वै शांतिमागमत् ॥२७॥ वायुना प्रबलेनैव घूर्णिता देववाहिनी । शुष्कपत्रसमा तत्र बभ्राम समरांगणे ॥२८॥ ततः समागतो दैत्यस्तारकोऽतिभयानकः । खड्गेन देवराजं तं जघानामर्षतो दृढम् ॥२९॥ खड्गाघातेन देवेंद्रं पतितं मूर्च्छया भृशम् । संगृह्य दैत्यराजस्तु तारकः स्वबलं ययौ ॥३०॥ मदासुरस्य सांनिध्ये स्थापयामास देवपम् । मदेन मूर्च्छितो देवो बद्धः पाशैः समंततः ॥३१॥ ततो हाहाकृतं सर्वैः पलायत दिशो दश । सैन्यं देवगणानां वै विनाथं भयसंकुलम् ॥३२॥ यमं च सहसाऽऽगत्य गदया हृदि विव्यथे । तारकः स महामूर्च्छां जगाम प्रेतनायकः ॥३३॥ संगृह्य स्वबले नीत्वा हर्षितोऽभून् महासुरः । एवमग्निमुखाः सर्वे धृतास्ते दैत्यनायकैः ॥३४॥ अनाथं देवसैन्यं तत् पलायत भयाकुलम् । मृतं भग्नं च शस्त्रैः संहतं दैत्यैर्महाबलैः ॥३५॥ एवं निर्जित्य दैत्येंद्रा जहृषुर्नारदसंयुताः । देवाः सर्वे भयोद्विग्नाः शरणं शंकरं ययुः ॥३६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदंतचरिते इंद्रपराजयो नामाष्टचत्वारिंशोऽध्यायः ॥