भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 240, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 240

हृदयं भक्तिसंयुक्तम् ॥२०॥ एकदंत उवाच । त्वां हंतुं क्रोधसंयुक्तो जातोऽहं नात्र संशयः । अधुना शरणं प्रेप्सुं न हन्मि शरणागतम् ॥२१॥ मदाज्ञावशगो भूत्वा तिष्ठ स्थाने स्वके सदा । देवानां वैरमुत्सृज्य मद्भक्तिनिरतो भव ॥२२॥ वरं वरय मत्तस्त्वं त्वया दास्यामि चिंतितम् । विनयेन च संतुष्टः स्तोत्रेणाऽहं विशेषतः ॥२३॥ त्वया कृतमिदं स्तोत्रं यः पठिष्यति दैत्यप । शृणुयाद्वा प्रयत्नेन भवेत्तस्येप्सितप्रदम् ॥२४॥ न तत्र मदसंभूतं भयं भवति कर्हिचित् । अंते स्वानंददं तस्मै स्तोत्रं मद्भक्तिदं भवेत् ॥२५॥ एवं तस्य वचः श्रुत्वैकदंतस्य मदासुरः । आसुरं भावमुत्सृज्य शांतरूप- स्तमब्रवीत् ॥२६॥ मदासुर उवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । एकदंतपदे भक्तिं देहि नाथ दृढां सदा ॥२७॥ अन्यं वरं गणेशान देहि वृत्तिं च शाश्वतीम् । भक्षयित्वा सदा देव भजेयं ते पदांबुजम् ॥२८॥ मदस्य वचनं श्रुत्वा ह्येकदंतस्तमब्रवीत् । मदीया भक्तिरुग्रा ते भविष्यति मदासुर ॥२९॥ यन्त्र मे स्मरणं चादौ पूजनं वा मदासुर । तत्र कर्म सुशांत्या त्वं युक्तो भव सुरक्षयन् ॥३०॥ विपरीते सदा दैत्य आसुरेण स्वभावतः । प्रवर्तय फलं तेषां कर्मणां भक्षयस्व च ॥३१॥ एवमुक्तो महादैत्यस्तं तथेति प्रणम्य च । नगरं स्वं जगामासावेकदंतपरायणः ॥३२॥ दैत्यास्त्रि- पुरकाद्या ये त्यक्त्वा तं ते ययुस्ततः । पातालादि भयोद्विग्ना देवाः स्वस्थानमाश्रिताः ॥३३॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खंडे एकदंतचरिते मदासुरशांतिप्राप्तिवर्णनं नाम चतुःपंचाशत्तमोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ गृत्समद उवाच । मदासुरं सुशांतं वै दृष्ट्वा विष्णुमुखाः सुराः । भृग्वादयश्च योगींद्रा एकदंतं समाययुः ॥१॥ प्रणम्य तं प्रपूज्याऽऽदौ पुनस्ते नेमुरादरात् । तुष्टुवुर्हर्षसंयुक्ता एकदंतं गजाननम् ॥२॥ देवर्षय ऊचुः । सदात्मरूपं सकलादिभूतममायिनं सोऽहमचिंत्यबोधम् । अथादिमध्यांतविहीनमेकं तमेकदंतं शरणं व्रजामः ॥३॥ अनंतचिद्रूपमयं गणेशमभेदभेदादिविहीनमाद्यम् । हृदि प्रकाशस्य धरं स्वधीस्थं तमेकदंतं शरणं व्रजामः ॥४॥ समाधिसंस्थं हृदि योगिनां तु प्रकाशरूपेण विभांतमेवम् । सदा निरालंबसमाधिगम्यं तमेकदंतं शरणं व्रजामः ॥५॥ स्वबिंबभावेन विलासयुक्तां प्रकृत्य मायां विविधस्वरूपाम् । सुवीर्यकं तत्र ददाति यो वै तमेकदंतं शरणं व्रजामः ॥६॥ यदीय वीर्येण समर्थभूतं