भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 259, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 259

खं. २ अ. ६३ पान १३३ ब्रह्मदात्रे च गजानन नमोऽस्तु ते ॥१८॥ ज्येष्ठाय चादिपूज्याय ज्येष्ठराजाय ते नमः । मात्रे पित्रे च सर्वेषां हेरंबाय नमो नमः ॥१९॥ अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः । विघ्नहर्त्रे स्वभक्तानां लंबोदर नमोऽस्तु ते ॥२०॥ त्वदीय- भक्तियोगेन योगीशाः शांतिमागताः । किं स्तुवो योगरूपं त्वां प्रणमावश्च विघ्नप ॥२१॥ तेन तुष्टो भव स्वामिन्नित्युक्त्वा तं प्रणेमतुः । तावुत्थाप्य गणाधीश उवाचाऽसौ महेश्वरौ ॥२२॥ गणेश उवाच । भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् । पठते शृण्वते चैव भविष्यति सुखप्रदम् ॥२३॥ भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा । धनधान्यादिकं सर्वं लभते तेन निश्चितम् ॥२४॥ वरं च वदतं देवौ प्रसन्नोऽहं ददामि तम् । भवतोर्भक्तिभावेन विभुः स्तोत्रेण तोषितः ॥२५॥ शक्तिशिवावूचतुः । यदि प्रसन्नभावेन वरदोऽसि गजानन । तदा नौ पुत्रतां याहि कृतकृत्यौ तया विभो ॥२६॥ भक्तिं देहि दृढां देव त्वदीये पादपंकजे । दुर्मतिं जहि विघ्नेश त्रैलोक्यं च सुखीकुरु ॥२७॥ गृत्समद उवाच । तयोर्वचनमाकर्ण्यामि- त्युक्त्वाऽन्तर्दधे विभुः । शिवौ संतोषयुक्तौ च तत्र संचेतुरभयात् ॥२८॥ एकदा पार्वती शंभुर्वैशाखस्नानमादरात् । चक्रतुर्गणनाथस्य प्रीतये हिमपर्वते ॥२९॥ भागीरथीजले नित्यं स्नात्वाऽपूजयतां च वै । दूर्वादिभिर्मृन्मयं तौ गणनाथं सुभक्तितः ॥३०॥ वैशाखपूर्णिमायां तावुषःकाले तु भक्तितः । स्नात्वा मूर्तिं शिवौ कृत्वा ध्यानं चक्रतुरादरात् ॥३१॥ ध्यात्वा हृद्यावाहयतां गणाधीशं तमंजसा । मूर्तौ सा ह्यचला मूर्तिः सचैतन्या बभूव ह ॥३२॥ चतुर्भुजधरस्तत्र गणराजो बभौ स्वयम् । उवाच पितरौ देवः पुत्रोऽहं वां न संशयः ॥३३॥ वरदानप्रभावेण वैशाखस्नानजेन च । तपसा पुत्ररूपं मां रक्षतं पितरौ सदा ॥३४॥ ततः प्रणम्य तं देवः शंकरः शक्तिसंयुक्तः । तुष्टावाथर्ववेदोक्तोपनिषद्भिर्महायशाः ॥३५॥ ततो गणपतिः प्रीत्या मोहयामास मायया । शिवं सशक्तिकं तत्र पुत्रभावप्रकाशनात् ॥३६॥ ततस्तस्य स संस्कारान् कारयामास वै द्विजैः । शिवश्च जातकर्मादीन् हर्षयुक्तेन चेतसा ॥३७॥ ततो लक्ष्मीसुता पुष्टिस्तपसा च बभूव ह । तां ददौ स गणेशाय विष्णुः परमहर्षितः ॥३८॥ एकदा तत्र संयातो ग्रहोत्तमशनैश्चरः । दर्शनार्थं गणेशस्य सस्त्रीकस्य महामतिः ॥३९॥ प्रणनाम स सस्त्रीकं गणेशं दैत्यनायक। जगाद भक्तिसंयुक्तो वचनं सर्वसन्निधौ ॥४०॥ धन्यं मे जन्म विद्या च तपो विद्यादिकं महत् । येन ते दर्शनं प्राप्तं सस्त्रीकस्य गजानन ॥४१॥ त्वं साक्षायोगरूपश्च पुष्टिः पोषणकारिणी । विश्वंभरा