मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 276, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ७१ पान १५० ततो पित्राऽभिषिक्तोऽभूत् स्वराज्ये वनगेन सः । सपत्नीकेन भूपालो गणः स्थाने बभूव ह ॥२६॥ ततो दैत्यैः समायातैर्नानादिग्भ्यो नृपो गणः । तैर्युक्तः सकलां पृथ्वीं विजिग्ये द्वीपसंयुताम् ॥२७॥ पातालं स ततो नागैर्जिगाय बलसंयुतः । युद्धं कृत्वा महाघोरं ततः स्वर्गं ययौ गणः ॥२८॥ स्वर्गं जित्वा सहेंद्रैः स ततो ब्रह्माणमंजसा । विष्णुं शिवं क्रमेणैवाजयत्तेजःसमन्वितः ॥२९॥ ततस्तान् करदान् कृत्वा स्थापयामास देवपान् । स्वस्वस्थानेषु तत्रैकं दैत्यं न्यस्य धरां ययौ ॥३०॥ एवं त्रैलोक्यराज्यं स जित्वा सर्वांश्चकार ह । ततश्चिंतामणिं दुष्टो जहार कपिलस्य सः ॥३१॥ कपिलो गणनाथस्य भक्तः परमभाविकः । तताप स तपो घोरं गणेशस्य महात्मनः ॥३२॥ वर्षेणैकेन देवेशो ययौ मूषकवाहनः । सिद्धिवुद्धिसमायुक्तो बोधयत्तं महामुनिम् ॥३३॥ कपिलस्तं गणाध्यक्षमागतं पूजयन् प्रभुम् । तुष्टाव साश्रुनेत्रश्च प्रेमगद्गदया गिरा ॥३४॥ कपिल उवाच । नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । अभक्तानां विशेषेण विघ्नकर्त्रे नमो नमः ॥३५॥ आकाशाय च भूतानां मनसे चामरेषु ते । बुद्धयै चेंद्रियवर्गेषु त्रिविधाय नमो नमः ॥३६॥ देहानां बिंदुरूपाय सोऽहंरूपाय देहिनाम् । तयोर्भेदभावेषु बोधाय तु नमो नमः ॥३७॥ सांख्याय वै विदेहानां सयोगानां निजात्मने । चतुर्णां पंचमायैव सर्वत्र तु नमो नमः ॥३८॥ नामरूपात्मकानां वै शक्तिरूपाय ते नमः । आत्मनां रवये तुभ्यं हेरंबाय नमो नमः ॥३९॥ आनंदानां महाविष्णुरूपिणे नेतिधारिणाम् । शंकराय च सर्वेषां संयोगे गणपाय ते ॥४०॥ कर्मणां कर्मयोगाय ज्ञानयोगाय जानताम् । समेषु समरूपाय लंबोदर नमोऽस्तु ते ॥४१॥ स्वाधीनानां गणाध्यक्ष सहजाय नमो नमः । तेषामभेदभावेषु स्वानं- दाय च ते नमः ॥४२॥ निर्मायिकस्वरूपाणामयोगाय नमो नमः । योगानां योगरूपाय गणेशाय नमो नमः ॥४३॥ शांतियोग- प्रदात्रे ते शांतियोगमयाय च। किं स्तौमि तत्र देवेश अतस्त्वां प्रणमाम्यहम् ॥४४॥ जगाद गणनाथो वै ततस्तं भक्तमुत्तमम् । हर्षेण महता युक्तो हर्षयन् मुनिसत्तमम् ॥४५॥ गणेश उवाच । त्वया कृतं मदीयं यत् स्तोत्रं योगप्रदं भवेत् । धर्मार्थ- काममोक्षाणां दायकं च न संशयः ॥४६॥ वरं वरय दास्यामि मत्तस्त्वं भक्तियंत्रितः । त्वत्समो न भवेत्तात तत्त्वज्ञान- प्रकाशकः ॥४७॥ तस्य तद्वचनं श्रुत्वा कपिलस्तमुवाच ह । त्वदीयामचलां भक्तिं देहि विघ्नेश मे पराम् ॥४८॥ त्वदीय- भूषणं दैत्यो गणो हृत्वा जगाम ह । मत्तश्चिंतामणिं नाथ जहि तं मणिमानय ॥४९॥ स्मरामि चेद्यदाऽहं त्वां तदात्मानं प्रदर्शय । एतमेव वरं पूर्णं देहि नाथ नमोऽस्तु ते ॥५०॥ गृत्समद उवाच । तस्य तद्वचनं श्रुत्वा हर्षयुक्तो गजाननः । उवाच