मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 280, कुल 1023 में से
संदर्भ में पढ़ेंखं. २ अ. ७३ | पान १५४ स्वस्वरूपेण तेषां हृदि गजाननः ॥१४॥ नामरूपात्मकेष्वेव ब्रह्म यत् परितिष्ठति । जानीहि वेदेषु तदसद्रूपं शक्ति- वाचकम् ॥१५॥ तेष्वात्माऽमृतरूपश्च भानुः सद्द्रूपवाचकः । तयोर्भेदभावेष्वानन्दो विष्णुः स उच्यते ॥१६॥ त्रिष्व- व्यक्तस्वरूपं यन्नेति कर्ता विशेषतः । निर्मोहः शिव एवाऽसौ तुर्यो वेदे प्रकथ्यते ॥१७॥ चतुर्णां चैव संयोगे स्वानंदः परिकीर्तितः । तद्ब्रह्म गणनाथोऽयं नानाखेलकरोऽभवत् ॥१८॥ एवं तस्यावताराश्च चत्वारः परिकीर्तिताः । चतुर्भाव- प्रसिद्धयर्थं गौणरूपास्ततोऽभवन् ॥१९॥ आनंदात्मकलांशेन विष्णुं गणरूपिणम् । जानीहि तं गणेशानान्न भिन्नं दानवोत्तम ॥२०॥ चतुर्णां भजनेनैव मनः शुद्धिमवाप्नुयात् । ततो गाणेशयोगे सोऽधिकारी भवति स्वयम् ॥२१॥ यथाऽऽश्रम- विभागेन नरः क्रमपरायणः । एकं त्यक्त्वा स गृह्णाति द्वितीयं भक्तिसंयुतः ॥२२॥ अंते योगी स शांतिस्थ आश्रमै रहितो भवेत् । तद्वत् क्रमेण गाणेशा भवेयुर्वैष्णवादिकाः ॥२३॥ अधुना शृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यति न संशयः ॥२४॥ स्वानंदः स विहारेण संयुक्तश्च विशेषतः । सर्वसंयोगकारित्वाद्गणेशो मायया युतः ॥२५॥ विहारेण विहीनश्चायोगो निर्मायिकः स्मृतः । संयोगाभेदहीनत्वाद्व्रव्ह्वा गणनायकः ॥२६॥ संयोगायोगयोर्योगः पूर्णयोगः प्रकीर्तितः । प्रह्लाद गणनाधस्तु पूर्णो ब्रह्ममयः परः ॥२७॥ योगेन तं गणाधीशं प्राप्नुवंतीह योगिनः । तं विद्धि पूर्णभावेन संयोगायोगवर्जितम् ॥२८॥ तस्य माया द्विधा प्रोक्ता सिद्धिर्बुद्धिश्च दैत्यप । बुद्धिः सा पंचधा जाता चित्तरूपा स्वभावतः ॥२९॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पंचधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥३०॥ क्षिप्तं मूढं च चित्तं यत् कर्मण्यपि विकर्मणि । संस्थितं तेन विश्वं वै चलति स्वस्वभावतः ॥३१॥ अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद । तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥३२॥ एकाग्रमष्टधा चित्तं तदेवैकात्मनि स्थितम् । संप्रज्ञात- समाधिस्थं साधु जानीहि सत्तम ॥३३॥ निरोधसंज्ञितं चित्तं निवृत्ते रूपधारकम् । असंप्रज्ञातयोगस्थं जानीयाद्योग- सेवया ॥३४॥ पंचधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता । माया सा गणनाधस्य त्यक्तव्या योगसेवया ॥३५॥ सिद्धिर्नाना- विधा प्रोक्ता भ्रांतिदा तत्र संमता । सिद्ध्यर्थं तत्र लोकाश्च भ्रमयुक्ता भवंत्यतः ॥३६॥ धर्मार्थकाममोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता । ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पंचधा सदा ॥३७॥ मोहदा सिद्धिरत्यंतं मोहधारकतां गता । बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥३८॥ बुद्ध्या यद् बुध्यते तत्र पश्चान् मोहः प्रवर्तते । अतो गणेशभक्त्या स मायाभ्यां