मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 290, कुल 1023 में से
संदर्भ में पढ़ें[शीर्षक: ख. २ अ. ३ | पान ६]
चकार सर्वशांतेभ्यः शांतिदं योगसेवया ॥१९॥ तत्र तस्य कलांशा ये ब्रह्माकाराः शिवादयः । ब्रह्मभावेन गर्वेणाऽभवन् स्वब्रह्मणि स्थिताः ॥२०॥ तेभ्यः शांतिप्रदानार्थं विघ्नदाता गजाननः । भवते तेन ते सर्वे गर्वहीना भवंति वै ॥२१॥ गर्वहीनस्वभावेन योगमिच्छंति शाश्वतम् । मूलभूतं च सर्वेषां जगतां ब्रह्मणों रवे ॥२२॥ साधयित्वा महायोगं शांतिरूपा भवंति ते । तत्र विघ्नहरो ढुंढिस्तेषां भवति सर्वदा ॥२३॥ ततो विघ्नेश्वरं देवं भजंते शांतिधारकाः । योगशांतिमयं पूर्णं भक्तिभावसमन्विताः ॥२४॥ एतदर्थं गणेशानः कुरुते विघ्नमुत्तमम् । देवर्षीणां च साधूनां दुष्टानां नैव तादृशम् ॥२५॥ ब्रह्मणो गिरमाकर्ण्य प्रसन्नः सविता पुनः । विधिं जगाद योगार्थं सर्वज्ञं भक्तिसंयुक्तः ॥२६॥ सूर्य उवाच । वद ब्रह्मन् गणेशस्य प्राप्यर्थं योगमुत्तमम् । साधयित्वा गणेशोऽहं भविष्यामि विधे यतः ॥२७॥ ब्रह्मोवाच । सम्यक् पृष्टं त्वया वत्स त्वं जानासि विशेषतः । अपि तत् कश्यपाज्जातः सर्वं तेन सुविस्मृतम् ॥२८॥ अधुना शृणु सर्वं त्वं गाणेशं ज्ञानमुत्तमम् । साधयित्वा गणेशानः कालेन प्रबविष्यसि ॥२९॥ मायाशक्तिरसद्रूपा भेदाकारा महामते । जानीहि तत्र सर्वात्मा त्वं च सद्रूप उच्यसे ॥३०॥ तयोः स्रष्टा सदानंदो विष्णुः साम्यप्रधारकः । त्रिभिर्हीनः शिवो व्यक्तस्त्रिभिर्जानीहि संयुक्तः ॥३१॥ चतुर्णां चैव संयोगे स्वानंदः परिकीर्तितः । स्वानंदाच्च परब्रह्म संयोगात्मकमुच्यते ॥३२॥ स एव गणराजस्तु मायाखेलक उच्यते । संयोगाभेदभावेन जगति ब्रह्मणि स्थितः ॥३३॥ अयोगे मायया हीनो गणेशो ब्रह्मवाचकः । सर्वसंयोगहीनश्चा- समाधिसुखदायकः ॥३४॥ संयोगायोगयोर्योगे गणेशः शांतिवाचकः । योगशांतिप्रदः सोऽपि शांतीनां शांतिरुच्यते ॥३५॥ मनोवाणीमयं सर्वं गकाराक्षरवाचकम् । मनोवाणीविहीनं यत् तत् जानीहि णकारजम् ॥३६॥ तयोः स्वामी गणेशानो ब्रह्मणों ब्रह्म उच्यते । सामवेदे रवे पश्य तं भजस्व विधानतः ॥३७॥ द्विविधा तस्य माया वै सिद्धिर्बुद्धिश्च कथ्यते । ताभ्यां युक्तः खेलति स नानार्थे गणनायकः ॥३८॥ चित्तं पंचविधं पुत्र बुद्धिरूपं न संशयः । उच्यते सिद्धिर्ऐश्वर्यं भोग- भेदाय पंचसु ॥३९॥ तयोर्बिंबिस्वरूपं यज्ञेहि तद् योगसेवया । शांतियोगधरः पुत्र भविष्यासि न संशयः ॥४०॥ एवमुक्त्वा गणेशस्य ददौ मंत्रं षडक्षरम् । तस्मै सूर्याय पूर्णं स विधियुक्तं पितामहः ॥४१॥ विधिं प्रणम्य च वनं ययौ भानुः सुशोभनम् । तताप तप उग्रं स निराहारपरायणः ॥४२॥ जजाप हृदि संध्याय गणेशं मंत्रमुत्तमम् । एवं वर्षसहस्रेण प्रसन्नोऽभूद्गजाननः ॥४३॥ तं ययौ भक्तिभावेन सुप्रीतः सूर्यमादरात् । स्वगणैः सेवितः साक्षाद्बोधयामास विघ्नपः ॥४४॥