मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 292, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ४ पान ८ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । श्रुत्वा सूर्यचरित्रं ते गणेशभक्तिसंयुक्तम् । हृष्टास्तं वालखिल्या वै पप्रच्छुः पुनरादरात् ॥१॥ वालखिल्या ऊचुः । भानो त्वया महच्चित्रं कथितं चेष्टितं प्रभो । तव वाक्यामृतेनैव संतृप्ता भृशमुत्तमम् ॥२॥ अधुना ब्रूहि देवेश मोहपाशनिकृंतनम् । गणेशचरितं येन मोहहीना भवंति च ॥३॥ अहो मोहस्य माहात्म्यं येन संछादितो महान् । गणेशस्तेन संभ्रांता न विदुस्तं गजाननम् ॥४॥ मुद्गल उवाच । एवं पृष्टो महातेजा भानुस्तैः स महर्षिभिः । उवाच तान् प्रहृष्टात्मा गाणपत्यो महायशाः ॥५॥ भानुरुवाच । अत्र वः कथयिष्यामि इतिहासं पुरावभवम् । मोहासुरचरित्रं यद्गणेशज्ञानसंयुक्तम् ॥६॥ कदाचित्तारको नाम दैत्योऽभूद्दारुणः खलः । ब्रह्मणो वरदानेन त्रैलोक्याधिपतिः स्वयम् ॥७॥ सर्वदेवगणास्तेन मुनयश्च प्रपीडिताः । वनेषु भयसंत्रस्ता अवसन् दुःखभागिनः ॥८॥ ततो बहुगते काले देवाः सर्षिगणाः पुरा । शिवस्य ध्यानसंयुक्ताः शरणं पार्वतीं ययुः ॥९॥ शिववीर्यभवो देवः सेनाधीशो हनिष्यति । तारकं नात्र संदेहो ज्ञात्वा तां तुष्टुवुः पराम् ॥१०॥ महादेवो वने गत्वा तपसे संस्थितोऽभवत् । तत्र देवगणैर्युक्ता पार्वती तं ययौ द्विजाः ॥११॥ दृष्ट्वा ध्यानस्थितं शंभुं मोहार्थं तस्य सा सती । भिल्लीवेषं चकारैव ययौ तं शंकराश्रमम् ॥१२॥ इतस्ततश्च बभ्राम भिल्लीरूपा गुणाधिका । पुष्पाणां ग्रहणे सक्ता महामोहप्रवर्धिनी ॥१३॥ एतस्मिन्नंतरे तत्र त्यक्त्वा ध्यानं शिवः स्थितः । तेन दृष्टा महाभागा रूपयौवनशालिनी ॥१४॥ तां दृष्ट्वा सहसा शंभुर्मोहितो मायया भृशम् । आदिमायां ययौ तत्र कामविह्वलमानसः ॥१५॥ हावभावयुतां भिल्लीं दृष्ट्वा परममोहितः । तां धर्तुं स मनश्चक्रे तज्ज्ञात्वा साऽपलायत ॥१६॥ पृष्ठलग्नः स्वयं साक्षाच्छंकरो विव्हलो भृशम् । ततः सा यत्र तत्राऽस्य समीपे विचचार ह ॥१७॥ एवं मुहूर्तमात्रं वै नग्नः शंभुर्महर्षयः । बभ्राम तां प्रधर्तुं तु साऽस्य नो हस्तगाऽभवत् ॥१८॥ ततो वीर्यं पपातास्य शिवस्य परमाद्भुतम् । भिल्ली सांतर्दधे विप्राः शिवः शांतो बभूव ह ॥१९॥ तस्माच्छिवस्य वीर्याद्वै संभूतः पुरुषो महान् । मोहरूपो महोग्रः स चतुर्बाहुधरो बभौ ॥२०॥ वनेऽभूत् संस्थितस्तत्रैकाकी तेजस्विनां वरः । चारुरूपो महामानी सर्वावयवसंयुक्तः ॥२१॥ स तु कंदफलादीनि भक्षयामास यत्नतः । इतस्ततश्च बभ्राम गतो नानावनेषु वै ॥२२॥ शिवस्तत्र समासीनो बभूव भृशदुःखितः । ध्यानेन सकलं ज्ञात्वा देवीकृतविचेष्टितम् ॥२३॥ ततो क्रोधसमायुक्तः कामं सद्यो ददाह सः । स्वस्थानं प्रययौ शंभुः पार्वतीं तां ददर्श ह ॥२४॥ देवकार्यार्थमत्यंतं पार्वत्या प्रार्थितः प्रभुः । कामं सस्मार शंभुस्तं पुरोऽनंगं ददर्श सः ॥२५॥