मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 3, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. २ पान ३ बुद्धिर्महाभाग सांख्यं स्वानंद एव च । इत्यादिमतभेदेन निश्चयो नैव जायते ॥४७॥ अतस्त्वं कृपया ब्रूहि वेदशास्त्रार्थ- संमतम् । सर्वेषां मान्यमेकं च सर्वसंशयनाशनम् ॥४८॥ इति पृष्टो महातेजाः शिष्यो व्यासस्य सत्तमः । एकं श्रुतिस्मृतीनां यत् सारं कथितुमारभत् ॥४९॥ सूत उवाच । शृणुध्वं मुनयः सर्वे सारं मुद्गलभाषितम् । सर्वश्रुतिस्मृतीनां च सर्वमान्यं विशेषतः ॥५०॥ पुरा दक्षाध्वरे जातं यज्ञविध्वंसनं महत् । रुद्रेणागत्य सहसा कृतो विघ्नो महत्तरः ॥५१॥ देवाः पराजिताः सर्वे रुद्रैः परमदारुणैः । दक्षमस्तकसंछेदो वीरभद्रेण वै कृतः ॥५२॥ ब्रह्मणागत्य तत्रासौ सान्त्वितो बहुलोक्तिभिः । शंकरो जीवयामास दक्षं योगेन तत्त्वतः ॥५३॥ यज्ञविध्वंसशोकार्तो दक्षः शापेन मोहितः । अज्ञाना- वरणेनापि न किञ्चिन्निश्चयं ययौ ॥५४॥ तत्राजगाम भगवान् साक्षात्सूर्य इवोदितः । वेदशास्त्रार्थतत्त्वज्ञो योगीन्द्रो मुद्गलो मुनिः ॥५५॥ गणेशभक्तप्रवरः सर्ववंद्यो महायशाः । तपसां कर्मणां साक्षान्निधिरेष सनातनः ॥५६॥ तं दृष्ट्वोत्थाय दक्षोऽसौ प्रणनाम महामुनिम् । आसनाद्यैः सुसंपूज्य वक्तुं समुपचक्रमे ॥५७॥ दक्ष उवाच । भो भो मुनीन्द्र वन्द्यस्त्वमांगिरस महाद्युते । यज्ञविध्वंसशोकार्तं मां पालय जडीकृतम् ॥५८॥ मुद्गल उवाच । मा चिन्तां कुरु भो दक्ष प्रजापालेन्द्रसत्तम । विघ्नराजं स्मर त्वं वै तेन सर्वं न दुर्लभम् ॥५९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते शौनकसूत्तसंवादो नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । दक्षेण मुनिशार्दूलाः श्रुतं मुद्गलभाषितम् । प्रणिपत्य पुनः सोऽपि पप्रच्छ हितकारकम् ॥१॥ शौनक उवाच । दक्षमुद्गलसंवादं श्रोतुमिच्छामहे वयम् । विस्तरेण समाचक्ष्व सूत संतोषकारक ॥२॥ सूत उवाच । शृणुध्वं मुनयः सर्वे कथां लोकैकपावनीम् । यां श्रुत्वा पुरुषस्येह नान्यत्कृत्यं प्रविद्यते ॥३॥ दक्षमुद्गलसंवादं समासेन विवर्णये । सारं सर्वत्र संपूर्णं भवरोगविमोचनम् ॥४॥ मुद्गलोक्तं वचः श्रुत्वा दक्षः प्रोवाच धर्मवित् । प्राञ्जलिः प्रयतो भूत्वा हृष्टरोमा महायशाः ॥५॥ दक्ष उवाच । पुण्यं महन्मेऽस्ति पुरातनं यत्तेनैव जातं तव दर्शनं भोः । मोक्षप्रदं तत्परलोकदं च भोगप्रदं धर्म्म्यमनंतपुण्यम् ॥६॥ शापेन नष्टो मम सर्वबोधः प्रजापतित्वं प्रगतं मदीयम् । यज्ञस्य भङ्गो विविधं हि कष्टं तत्रैव ते