भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 301, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 301

खं. ३ अ. ८ पान १७ ॥ श्रीगणेशाय नमः ॥ रविरुवाच । ततोऽतिगर्वितो मोहासुरो दैत्यः प्रतापवान् । देवानां जीवघातार्थं प्रयत्नं स चकार ह ॥१॥ तदर्थं प्रेषयामास दैत्यान् परमदारुणान् । कर्ममार्गस्य ते सर्वे चक्रुः खंडनमादरात् ॥२॥ स्वल्पकालेन भो विप्राः कर्महीनं महीतलम् । कृतं दैत्यैश्च सर्वत्र त्रासिताः कर्मकारकाः ॥३॥ वर्णाश्रमविहीनं तैः कृतं सर्वत्र भूतलम् । धर्ममूलं तथा नष्टं बभूव क्रमतः किल ॥४॥ न स्वाहा न स्वधा कुत्र प्रबभूव महर्षयः । मोहासुरस्य मूर्तिं ते स्थापयामासुरादरात् ॥५॥ दैत्यपास्तत्र लोकैर्वा पूजां सर्वत्र संमताम् । कारयामासुरुग्रैश्च दंडैः संताड्य मानवान् ॥६॥ ततो मुनिगणाः सर्वे भ्रष्टा जाता विशेषतः । मृताः केचित्तथाऽरण्ये गताः परमदारुणे ॥७॥ तत्र ते भयसंयुक्ताः क्रियां चकुर्महर्षयः । एवं धर्मस्य विच्छेदः कृतस्तेन सुरारिणा ॥८॥ ततो देवगणाः सर्वे भययुक्ता विशेषतः । उपोषणसमायुक्ता विचारं चक्रिरे द्विजाः ॥९॥ मिलिता मुनिभिः सार्धं मोहासुरविनाशने । न प्रापुर्देवविप्रेंद्रा उपायं सुखदं परम् ॥१०॥ ततस्तानर्यमा प्राह शृणुध्वं सुरसत्तमाः । मुनयश्च महाभागा वचो मे हितकारकम् ॥११॥ नामरूपधरं सर्वं तस्मान् मृत्युर्न वै भवेत् । मोहासुरस्य देवेंद्रस्तत्रोपायं वदाम्यहम् ॥१२॥ गणेश्वरस्य हस्तेन दैत्योऽयं प्रमरिष्यति । स्वयं योगमयः प्रोक्तस्तस्मात्तं प्रभजामहे ॥१३॥ स एव निजलोकस्थो निजबोधेन दैत्यपम् । हनिष्यति न संदेहः स्तूयतां स सुरेश्वराः ॥१४॥ सूर्यस्य वचनं श्रुत्वा देवा हर्ष- समन्विताः । विष्ण्वादयाश्च पुनस्तं ते जगुर्वचनमुत्तमम् ॥१५॥ देवा ऊचुः । सम्यगुक्तं त्वया भानो बुद्ध्या त्वमधिको मतः । सर्वेभ्यो जीवदाता भो जातोऽस्यत्र न संशयः ॥१६॥ ततो देवाश्च विप्राश्च तपसा गणनायकम् । आराधयन् प्रयत्नेन विघ्नवारणकारणम् ॥१७॥ एकाक्षरविधानेनापूजयंस्तं निरंतरम् । अजपन् मंत्रमाद्यं तु ध्यायंतो गणपं हृदि ॥१८॥ नानातपः- समायुक्ता उपोषणपरायणाः । ऋषयो देवदेवेशा विघ्नेश्वरमतोषयन् ॥१९॥ वर्षाणां शतकेष्वेवं गतेषु गणनायकः । आययौ तान् वरं दातुं भृशं भावेन तोषितः ॥२०॥ सौम्यतेजोयुतश्चैवाखुगः पूर्णो गजाननः । चतुर्बाहुर्दयापूर्णो महोदर- विराजितः ॥२१॥ एकदंतो विशालाक्षः शूर्पकर्णधरः प्रभुः । सिद्धिबुद्धिसमायुक्तो नाभिशेषविराजितः ॥२२॥ चिंतामणिं गले बद्ध्वा नागयज्ञोपवीतवान् । एवं समाययौ देवो देवर्षीणां पुरो विभुः ॥२३॥ तं दृष्ट्वा देवविप्रास्ते हर्षिता भक्तिसंयुताः । प्रणेमुः पूजयामासुर्यथाशास्त्रविधानतः ॥२४॥ ततस्तं तुष्टुवुः सर्वे कृतांजलय आदरात् । तद्दर्शनमहोत्साहा यथामतय भो द्विजाः ॥२५॥ देवर्षय ऊचुः । नमस्ते गणनाथाय महोदरस्वरूपिणे । अनाथाय च नाथाय सर्वेषां ते नमो नमः ॥२६॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 301, कुल 1023 में से · BharatKosha