मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 305, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. १० पान २१
यतंते स्म यदा प्रभो । तदा दैत्याय भवति सिद्धीशः सिद्धिदायकः ॥५३॥ देहधारी स्वयं भूत्वा वरदो भवति प्रभुः । असुरेभ्यो न संदेहस्तं जानीहि महोदरम् ॥५४॥ दैत्या देवविनाशार्थं यतंते सर्वभावतः । तदा देहधरश्चाऽयं हंति दैत्यान्न संशयः ॥५५॥ देवाः संख्यायुता वेदे वर्तते दैत्यनायक । वृद्धिक्षयविहीनत्वाद् हंति तान्न विशेषतः ॥५६॥ दैत्या अपाररूपाश्च वृद्धिक्षययुता मताः । तस्मात्तान् हंति वेगेन गणेशो ब्रह्मनायकः ॥५७॥ स्वस्वधर्मरता एते यदा खलु सुरासुराः । तदा तिष्ठत्ययं योगरूपश्च जठरे विभुः ॥५८॥ सर्वं ते कथितं दैत्य ब्रह्मभूतोऽयमुच्यते । तस्यांशैः सर्वमुत्पन्नं जगद्ब्रह्म च कथ्यते ॥५९॥ तस्मात्तं शरणं गच्छ यदि जीवितुमिच्छसि । भोगार्थं दैत्यराज त्वं मोक्षार्थं लालसा यदि ॥६०॥ एवमुक्त्वांतर्दधेऽसौ नारदः करुणानिधिः । गणेशगानसंयुक्तो वीणावादे प्रलालसः ॥६१॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते मोहासुरज्ञानप्रदानं नाम नवमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ रविरुवाच । गते मुनौ महाभागा मोहो जातः सुहर्षितः । विचारमकरोचित्ते नारदोक्तविचारवित् ॥१॥ एकांते संस्थितो दैत्यो गणेशध्यानतत्परः । महोदरस्य माहात्म्यं ज्ञात्वा मनसि हर्षितः ॥२॥ स शुक्रमुपसंगम्यकथयत् प्रकथानकम् । नारदोक्तं च काव्येन तेनैवं बोधितो द्विजाः ॥३॥ ततः स्वगृहमागत्य गणेशे मोहितोऽभवत् । मोहासुरश्च मोहेन वर्जितः प्रबभौ स्वयम् ॥४॥ एतस्मिन्नंतरे तत्र विष्णुः स्वयमुपाययौ । प्रेषितो गणराजेन सामार्थं दैत्यसन्निधौ ॥५॥ केशवं मानयामास मोहासुरः प्रतापवान् । अपूजयन् महादैत्यो निवेश्य शुभ आसने ॥६॥ पप्रच्छ तं महाविष्णुं किमर्थं त्वमिहागतः । वद विष्णो महाभाग कारणं ते करोम्यहम् ॥७॥ विष्णुरुवाच । महोदरः समायातो धर्मरक्षणतत्परः । देवैश्च मुनिभिः सार्धं तेनाऽहं प्रेषितोऽसुर ॥८॥ सामार्थं ते महाभागाऽसि धन्यो दैत्यनायक । मित्रभावं त्वया सार्धं स इच्छति महोदरः ॥९॥ देहदेहिमयं ब्रह्म तदेव गणनायकः । महोदरः समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥१०॥ सर्वेषामुदरे स्थित्वा भोगान् सर्वान् भुनक्ति सः । महोदरश्च तेनाऽसौ वयं स्वल्पोदराः स्मृताः ॥११॥ नगरस्य पुरो राजन् दशयोजनदूरगः । संस्थितो देवविप्राद्यैः संस्तुतः प्रबभौ विभुः ॥१२॥ स उवाच तदेवाऽहं कथयामि शृणुष्व तत् । वचनं सर्वभावज्ञ