भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 312, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 312

चतुर्बाहुधरायैव लंबोदर नमोऽस्तु ते ॥१२॥ ढुंढये सर्वसाराय नानाभेदप्रचारिणे । भेदहीनाय देवाय नमश्चिंतामणे नमः ॥१३॥ सिद्धिबुद्धिपते तुभ्यं सिद्धिबुद्धिस्वरूपिणे । योगाय योगनाथाय शूर्पकर्णाय ते नमः ॥१४॥ सगुणाय नमस्तुभ्यं निर्गुणाय परात्मने । सर्वपूज्याय सर्वाय देवदेवाय ते नमः ॥१५॥ ब्रह्मणां ब्रह्मणे तुभ्यं सदा शांतिप्रदायक । सुखशांति- धरायैव नाभिशेषाय ते नमः ॥१६॥ पूर्णाय पूर्णनाथाय पूर्णानंदाय ते नमः । योगमायाप्रचालाय खेलकाय नमो नमः ॥१७॥ अनादये नमस्तुभ्यमादिमध्यांतमूर्तये । स्रष्ट्रे पात्रे च संहर्त्रे सिंहवाहाय ते नमः ॥१८॥ गताभिमानिनां नाथस्त्वमेवात्र न संशयः । तेन हेरंबनामाऽसि विनायक नमोऽस्तु ते ॥१९॥ किं स्तुवस्त्वं गणाधीश योगाभेदमयं परम् । अतस्त्वां प्रणमावो वै तेन तुष्टो भव प्रभो ॥२०॥ एवमुक्त्वा नतौ तत्र नरनारायणावृषी । तावुत्थाप्य गणेशान उवाच घननस्वनः ॥२१॥ हेरंब उवाच । वरं चित्तेप्सितं दास्यामि ब्रूतं भक्तियंत्रितः । महाभागावादिमुनी योगमार्गप्रकाशकौ ॥२२॥ भवत्कृतमिदं स्तोत्रं मम प्रीतिकरं भवेत् । पठते शृण्वते चैव भुक्तिमुक्तिप्रदं तथा ॥२३॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । मम भक्तिप्रदं चैव भविष्यति सुसिद्धिदम् ॥२४॥ भानुरुवाच । हेरंबवचनं श्रुत्वा हर्षितौ मुनिपुंगवौ । कृतांजलिपुटौ चोभावूचतुस्तं गजाननम् ॥२५॥ यदि प्रसन्नभावेन वरं दास्यसि विघ्नप । तदा ते भक्तिमुग्रां नौ देहि चाव्यभिचारिणीम् ॥२६॥ तथेति गणनाथास्तौ जगाद भक्तिभावितः । अंतर्धानं चकाराऽसौ स्वानंदस्थो बभूव ह ॥२७॥ ततस्तौ नित्यमत्यंतं गणेशभजने रतौ । हेरंबेति सदा मंत्रं वाण्या प्रोचतुरादरात् ॥२८॥ ततो बहुगते काले मार्कंडेयाश्रमे द्विजाः । जग्मतुर्ज्ञानदानार्थं करुणायुक्तमानसौ ॥२९॥ नरनारायणौ दृष्ट्वा मार्कंडेयो महामुनिः । प्रणाम स साष्टांगं पूजयन् भक्तिसंयुतः ॥३०॥ पूजयित्वा स्वयं तत्र पादसंवाहने स्थितः । उवाच तौ विनीतात्मा मार्कंडेयो महामुनिः ॥३१॥ मार्कंडेय उवाच । धन्यं मे जन्म विद्या च तपो ज्ञानादिकं तथा । धन्यौ मे जनकौ चैव युवयोः पाददर्शनात् ॥३२॥ एवं नानाविधैर्वाक्यैः संस्तुतौ मुनिपुंगवौ । ऊचतुस्तं विनीतं तौ भक्तिभावेन तोषितौ ॥३३॥ नरनारायणावूचतुः । मार्कंडेय वृणुष्व त्वं वरं स्वमनसीप्सितम् । तवातिथ्यकृतेनैव संतुष्टौ नात्र संशयः ॥३४॥ तयोर्वचनमाकर्ण्य मार्कंडेयः प्रतापवान् । प्रणम्य तावुवाचाऽथ भक्तिनम्रात्मकंधरः ॥३५॥ मार्कंडेय उवाच । ज्ञानं शांतिप्रदं पूर्णं वदतं मुनिसत्तमौ । तेन तृप्तो भविष्यामि शांतियोगपरायणः ॥३६॥ दर्शयेथां महामायां तां ज्ञात्वा संत्यजाम्यहम् ।