मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 314, कुल 1023 में से
संदर्भ में पढ़ेंपान ३०
कार्यं क्षात्रधर्मपरायणैः ॥१९॥ एवं षट्कं समाख्यातं मन्वंतरमयं मुने । मन्वंतरे समाप्ते वै द्वितीयस्य समुद्भवः ॥२०॥ ज्ञाननिष्ठं तदा षट्कं भवेद्वै नित्यमादरात् । तपसा देहमुत्सृज्य स्वस्वधाम्नि गतं भवेत् ॥२१॥ लयस्तत्र समाख्यातो मन्वंतरलयात्मकः । तत्र सर्वे लयं प्राप्ता जनाः स्थावरजंगमाः ॥२२॥ द्वितीये मनुमुख्ये समुद्यते वै महामुने । भृग्वादयः स्वमात्मानं ससृजुर्योगसेवया ॥२३॥ पुनः सृष्टिं प्रचक्रुस्ते चराचरमयीं मुने । एवं सर्वांतरे प्रोक्तं ज्ञातव्यं विबुधैः सदा ॥२४॥ ब्रह्मणो दिवसान्ते यो लयो नैमित्तिकाह्वयः । भवति तत्र त्रैलोक्यं नाशमेति न संशयः ॥२५॥ एवं दिनक्रमेणैव शतवर्षमयं मुने । ब्रह्मणः पूर्णमायुष्यं भविष्यति न संशयः ॥२६॥ तदा स्वयं लयेनैव मरिष्यति पितामहः । एवं क्रमेण त्रैगुण्यं नाशरूपं वदंति च ॥२७॥ जन्ममृत्युमयी पूर्णा नानाद्वंद्वप्रकाशिनी । माया ते कथिता विप्र द्वंद्वभावेषु भ्रांतिदा ॥२८॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते मायावर्णनं नाम चतुर्दशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मार्कंडेय उवाच । भवद्भ्यां कथितं चित्रं मायारूपं विशेषतः । श्रुत्वाऽहं तृप्तिसंयुक्तो भवामि भृशहर्षितः ॥१॥ मायारूपं मया नाथौ न ज्ञातं पूर्णभावतः । अतो मां विस्तरेणैव वदतं योगिनां वरौ ॥२॥ वर्णाश्रमविभागं वै स्वस्वाचारसमन्वितम् । युगमानं तथा विप्रो युगधर्मान् विशेषतः ॥३॥ पितृदेवासुराणां वै कर्ममार्गं सुतृप्तिदम् । सूर्यचंद्रप्रसूतानां राज्ञां सर्वं चरित्रकम् ॥४॥ एतानि प्रश्नपीठानि वदतं चर्षिसत्तमौ । तत्र द्वंद्वादिकस्यैव ज्ञानं मे प्रभविष्यति ॥५॥ भानुरुवाच । एवं पृष्टौ महाभागौ नरनारायणावृषी । ऊचतुस्तं दयायुक्तौ मार्कंडेयं तु तापसम् ॥६॥ नरनारायणावूचतुः । सम्यक् पृष्टं महाभाग वदिष्यावोऽखिलं च ते । येन मायाचरित्राणां ज्ञानं भवति निश्चलम् ॥७॥ निमेषमात्रः कालो यो लघ्वक्षरसमन्वितः । दशपंचनिमेषैश्च काष्ठाकालः प्रकीर्तितः ॥८॥ त्रिंशत्काष्ठाभिरेवं यः कलाकालः प्रजायते । त्रिंशत्कलाभिरेकं वै मुहूर्तं परिकीर्तितम् ॥९॥ त्रिंशन्मुहूर्तमानेन दिवानक्तमयो मतः । तैस्त्रिंशद्भिस्तथा कालो मासाख्यो विप्र जायते ॥१०॥ मासपक्षद्वयाकारः शुक्लकृष्णविभागतः । मासैर्द्वादशभिः संवत्सरः पूर्णश्च जायते ॥११॥ द्वाभ्यामाभ्यामृतुः प्रोक्तः स षडृतुभिरुच्यते । संवत्सरप्रमाणाख्यः कथितः कालवेदिभिः ॥१२॥ निमेषादिभिरेवं स