भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 316, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 316

अधिमासस्तथा लोकैः क्षयमासो मलात्मकः ॥३९॥ अमायां चंद्रचिह्नेन ज्ञायते नान्यथा क्वचित् । स्नानार्थं मासमाहात्म्यं पूर्णिमायां विशेषतः ॥४०॥ चंद्रचिह्नेन विप्रर्षे ज्ञातव्यं विबुधैः सदा । अन्यच्च पितॄणां कालश्चंद्रमासेन जायते ॥४१॥ देवानां पितॄणां स्वर्गे सुधापानं प्रकीर्तितम् । पूर्णं सोमकलाभूतं चांद्रमासे न जायते ॥४२॥ देवानां दिवसे कालः सूर्यचिह्नेन जायते । शुक्लकृष्णगतिश्चैव कारणं परिकीर्तितम् ॥४३॥ त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः । त्रिंशताधिक- रूपाणि मतः सप्तर्षिवत्सरः ॥४४॥ नव वर्षसहस्राणि मानुषेण प्रमाणतः । अन्यानि नवतिश्चैव ध्रौव्यः संवत्सरः स्मृतः ॥४५॥ एवं कालप्रमाणं यत् कथितं ते द्विजोत्तम । मृत्युयुक्तं सदा क्रांतं ज्ञातव्यं द्वंद्वसंयुक्तम् ॥४६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते कालगतिवर्णनं नाम पंचदशोऽध्यायः ।

॥ श्रीगणेशाय नमः ॥ नरनारायणावूचतुः । दिव्यवर्षसहस्राणि द्वादशाऽथ महामुने । चतुर्युगमयः कालो ज्ञातव्यो विबुधैः सदा ॥१॥ चत्वारि च सहस्राणि वर्षाणि कृतनामकम् । युगं प्रकीर्तितं तत्राष्टशतैः संधिरुच्यते ॥२॥ त्रीणि वर्षसहस्राणि युगं त्रेता प्रकीर्तितम् । संध्यांशो द्विगुणैस्तत्र ज्ञातव्यो विबुधैः शतैः ॥३॥ सहस्रे द्वे च वर्षाणि द्वापरः परिकीर्तितः । संध्यांशो द्विगुणैस्तस्माच्छतैस्तु परिकीर्तितः ॥४॥ एकवर्षसहस्रं वै कलिः परमदारुणः । तस्याऽपि संधिर्द्विगुणो ज्ञातव्यो विबुधैस्तथा ॥५॥ शतानि संधिरूपाणि ज्ञातव्यानि विशेषतः । सर्वत्र युगमानेष्वाद्यं तयोर्भोगदानि वै ॥६॥ एवं द्वादश- साहस्रदेववर्षाणि तानि वै । चतुर्युगानां मानं च कथितं कालवेदिभिः ॥७॥ आद्यं कृतयुगं प्रोक्तं ततस्त्रेता प्रकीर्तिता । ततो द्वापरनामाऽपि कलिस्तस्मात् प्रकीर्तितः ॥८॥ ध्यानं कृतयुगे मुख्यं त्रेतायामध्वरस्तपः । द्वापरे पूजनाचारः कलौ स्तवन- मुच्यते ॥९॥ ब्राह्मः कृतयुगे धर्मश्चतुष्पादः सनातनः । त्रेतायां त्रिपदः प्रोक्तो धर्मो धर्मविदां वरैः ॥१०॥ द्वापरे द्विपदो धर्मः सर्वशास्त्रेषु संमतः । कलावेकपदः प्रोक्तः सोप्यंऽते नाशमेष्यति ॥११॥ कृते ज्ञानं सदा पूज्यं त्रेतायां रविरुच्यते । द्वापरे दैवतं विष्णुं कलौ शंभुं वदंति च ॥१२॥ चतुर्युगानां मानेषु गणेशो मुख्यभावतः । पूज्यते मानवैः सर्वैः स्वस्व- सिद्ध्यर्थमादरात् ॥१३॥ कृते विनायकः प्रोक्तः कश्यपात्मज एव सः । सिंहारूढश्च दिग्बाहुस्तेजोरूपी प्रकथ्यते ॥१४॥