मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 342, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. २७ पान ५८ संयुक्तो भक्तरक्षणतत्परः ॥३३॥ बालविष्णुरुवाच । पश्य मायां महर्षे त्वं ज्ञानदृष्ट्या महामुने । ज्ञानचक्षुर्मया दत्तं तुभ्यं भक्तिप्रभावतः ॥३४॥ मार्कंडेयस्ततो विप्रा ज्ञानचक्षुःसमन्वितः । मायामपश्यदानंदान्नानाभावप्रकाशिनीम् ॥३५॥ व्याप्यव्यापकरूपेण द्विजाः सर्वत्र संस्थिताः । नानागुणविभेदेन मोहयंति नरान् सदा ॥३६॥ कुत्र ब्रह्मांडनाशश्च कुत्र ब्रह्मांडपालनम् । कुत्रोत्पत्तिश्च विप्रेंद्रा दृश्यते तेन योगिना ॥३७॥ कुत्र शून्यमयं कुत्र पूर्णरूपं तथा पुनः । ध्यानसंस्थं परं ब्रह्म ददर्श मुनिसत्तमः ॥३८॥ कुत्र योगार्थमत्यंतं नराः परमभाविकाः । लिप्यंते कुत्र भोगार्थं मोक्षार्थं कुत्रचिद् द्विजाः ॥३९॥ पुनः पुनश्च सृज्यंते म्रियंते च पुनः पुनः । ईश्वरानेश्वराः कुत्र प्रभवंतीश्वरा नराः ॥४०॥ अमृतं विषरूपं च विषं चामृतदायकम् । ददर्श तत्र विप्रर्षिः सूर्यं शीतत्वमास्थितम् ॥४१॥ स्थले जलं जले चैव स्थलं नानाविकारजम् । मुक्तं नरं तथा बद्धं ददर्श मुनिसत्तमः ॥४२॥ न प्रलेभे गतिं तत्रेश्वरो भ्रांत्या ह्यनीश्वरः । जगच्च जगदात्मा वै ततोऽसौ विस्मितोऽभवत् ॥४३॥ एवं नानाविधं भावं ददर्श मुनिसत्तमः । न शक्यते मया वक्तुं वर्षकोटिशतैरपि ॥४४॥ ततस्तं परितुष्टाव बालविष्णुं महामुनिः । नानास्तोत्रैः सुतुष्टं स प्रार्थयामास भावतः ॥४५॥ निवर्तय हरे मायां कुरु मां पूर्ववद्यथा । इति प्रार्थयमानं स चक्रे स्वे चाश्रमे स्थितम् ॥४६॥ ततस्तत्र द्विजेंद्रेण न दृष्टमिव तद्बभौ । यथा स्वप्नगतं जंतुर्न ददर्श समुत्थितः ॥४७॥ न जलं नैव सामुद्रं भयं दुःखं न केशवः । बालरूपधरश्चैव न माया तेन विस्मितः ॥४८॥ बालखिल्यास्ततो विप्रस्त्यक्त्वा मायां भ्रमात्मिकाम् । गणेशभजने सक्तोऽजपद्वै मंत्रमुत्तमम् ॥४९॥ नरनारायणाभ्यां यः कथितो योग उत्तमः । हेरंबमंत्रभावेन साधयामास तं पुनः ॥५०॥ रामेण साधितः पूर्वं तथा तेनाऽपि साधितः । योगः शांतिप्रदः पूर्णो गाणपत्यस्वभावतः ॥५१॥ योगशांतिपरो भूत्वाऽभजत्तं गणनायकम् । अनन्यचेतसा सोऽपि मार्कंडेयः सुयोगवित् ॥५२॥ अंते गणेशदेहे स सायुज्यं प्राप भक्तितः । एवं नानाविधा विप्रा गाणेशाः संभवंति वै ॥५३॥ एतन् मृकंडुपुत्रस्य चरितं यः शृणोति वा । पठेत्तु तस्य वै मायाबंधो न प्रभविष्यति ॥५४॥ महोदरो भवेद्देवो हेरंबाख्यः प्रकीर्तितः । विद्याधीशपुरे भक्तिसिद्धिदस्तत्र तिष्ठति ॥५५॥ अतोऽहं गणनाथं तं प्रभजे वालखिल्यकाः । योगभावेन संसाध्यं कृत्वा भक्तिसमन्वितः ॥५६॥ मुद्गल उवाच । एवं भानोर्वचः श्रुत्वा प्रणेमुर्वालखिल्यकाः । रविं सर्वत्र चात्मानं तुष्टुवुर्विविधैः स्तवैः ॥५७॥ ऊचुः प्रांजलयस्ते तं भानुं सर्वप्रियं पुनः । कृतकृत्याः कृता भानो वयं देव न संशयः ॥५८॥