मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 346, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. २९ पान ६२ च ते वासो भविष्यति महामते । त्वदधीना भविष्यामि नित्यं राजन्न संशयः ॥२०॥ ततः शोकाकुलो राजा रुरोदातीव दारुणम् । सा तथा विह्वलं दृष्ट्वोवाच देवांगना च तम् ॥२१॥ वर्षे वर्षे च भो राजन्नेकरात्रिं वसाम्यहम् । त्वया सार्द्धं महाभाग ततः साऽन्तर्हिताऽभवत् ॥२२॥ राज्ञाऽपि तादृशं तत्र कृतं नित्यं प्रजापते । तेन पितृगणास्तुष्टा वरं राज्ञे ददौ परम् ॥२३॥ उर्वशी त्वदधीना सा भविष्यति महामते । तव नामांकिता देवाः श्राद्धेऽस्माकं भवंतु च ॥२४॥ अक्षयः पितृलोकस्ते भविष्यति न संशयः । एवमुक्त्वाऽंतर्दधुस्ते पितरो भक्तवत्सलाः ॥२५॥ ततः स्वल्पेन कालेन भूमिपो निधनं गतः । स्वर्गं पुण्यबलेनैव जगाम स पुरूरवाः ॥२६॥ तत्रोर्वशी समायुक्तो बुभुजे विषयप्रियः । भोगान् स्वर्गोद्भवान् नित्यं तामवाप्य पुरूरवाः ॥२७॥ ततो बहौ गते काले पितृलोके गतेन सः । नारदेन महीपालो बोधितो दयया विधे ॥२८॥ नारद उवाच । किं राजंस्त्वं महाभाग विषयेषु विशेषतः । सक्तः पश्य स्वमात्मानं पतिष्यसि न संशयः ॥२९॥ देहोऽयं बंधनागारं तत्र त्वं निगडेन च । बद्धस्तस्माच्च योगेन बंधहीनो भव प्रभो ॥३०॥ पुनः पुनश्च भोगाः किं भोक्तव्यास्तादृशा- स्त्वया । न तृप्तिमधिगच्छंति जना अज्ञानसंयुताः ॥३१॥ ब्रह्मामृतं पिब त्वं च सदा स्वानंददायकम् । तच्च्यक्त्वाऽल्पसुखे सक्तः पतिष्यसि पुनर्घधः ॥३२॥ चतुरशीति लक्षासु नरो भ्रमति योनिषु । तत्र स्त्रीपुत्रकार्यं स लभते नाऽत्र संशयः ॥३३॥ मनुष्ययोनिगो भूत्वा नरः सर्वार्थवान् भवेत् । तत्र ज्ञानं विशेषेण भवत्यत्र न संशयः ॥३४॥ कर्मार्हो नरदेहोऽयं तत्र योगो न साधितः । पतिष्यति पुनः सोऽपि नानायोनिषु मानद ॥३५॥ द्वंद्वभावमयं दुःखं यत्र तत्र च विंदति । न शाश्वतस्वरूपं स ब्रह्म भुंक्ते नरः कदा ॥३६॥ त्वमपि ज्ञानयुक्तः सन् किं करोषि महामते । तारयस्व स्वमात्मानं योगेन नरसत्तम ॥३७॥ नारदस्य वचः श्रुत्वा तं जगाद नराधिपः । सत्यमुक्तं त्वया योगिन् मया तच्चैव संधृतम् ॥३८॥ अहं विषयदोषेण पीडितोऽतितरां प्रभो । निर्वेदं मे मनः प्राप्तं ज्ञानं ब्रूहि महामुने ॥३९॥ नारद उवाच । गणेशं भज भावेन ततः क्षेमं भविष्यति । एकाक्षरविधानेन सर्वेभ्यश्च परात्परम् ॥४०॥ हृदि बुद्धिप्रदातारं बहिः सिद्धिप्रदं परम् । योगाकारं च सर्वत्र संस्थितं ब्रह्मनायकम् ॥४१॥ चित्तं त्यक्त्वा महाराज भव चिंतामणिः स्वयम् । एवमुक्त्वा च तस्मै स ददावेकाक्षरं मनुम् ॥४२॥ ततस्तेनाभ्यनुज्ञातो नारदः प्रजगाम ह । सोऽपि तामुर्वशीं त्यक्त्वा ध्यानसंस्थो बभूव ह ॥४३॥ कालेन स्वल्पभावेन गाणपत्यो बभूव ह । ततः स निंदयामास स्वात्मानं भृशदुःखितः ॥४४॥