भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 350, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 350

खं. ३ अ. ३० पान ६६ नादश्च कृतो मेघसमो महान् । तं श्रुत्वा धर्मराजः स ययौ भीमं महाबलम् ॥६६॥ सर्पेण वेष्टितं भीमं दृष्ट्वा दुःखसम- न्वितम् । युधिष्ठिरं स तं तत्रोवाच नागो महाबलः ॥६७॥ नाग उवाच । अहं नहुषनामा ते नृपः पुत्र न संशयः । दर्शनार्थं मया चाऽयं भीमः संजगृहेऽधुना ॥६८॥ अहं पृच्छामि राजंस्त्वां तद्वदस्व यथातथम् । तदा भीमं प्रमोक्ष्यामि सर्वज्ञस्त्वं मतो यतः ॥६९॥ नहुषस्य वचः श्रुत्वा हर्षितः स युधिष्ठिरः । तमुवाच महाभागं स्ववंशवरभूषणम् ॥७०॥ युधिष्ठिर उवाच । वद नाग महाभाग मान्योऽसि त्वं महामते । संशयं छेदयिष्यामि प्रसादात्तव मानद ॥७१॥ नहुष उवाच । किं सत्यं किं तथा राजन्ननृतं धर्ममुत्तमम् । पापं बंधं च मोक्षं किं योगं ध्यानं वदस्व च ॥७२॥ किं कर्म किमकर्म त्वं किं विकर्म स्मृतं भवेत् । किं ज्ञानं किं तपोमूलं दैवतं किं वदस्व मे ॥७३॥ किं सारं किमसारं च किं मान्यं च तथा नृप । अवमान्यं च सर्वेशं किं वदस्व युधिष्ठिर ॥७४॥ एतान् वै वद मे वत्स तदा भीमं महामते । मोचयिष्यामि वेगेन गमिष्यामि यथेच्छया ॥७५॥ युधिष्ठिर उवाच । सत्यं ब्रह्म च विज्ञेयं जगद्वै ह्यनृतात्मकम् । धर्मः स्वधर्मरूपश्च जानीया राजसत्तम ॥७६॥ स्वधर्महीनं रूपं यत् पापं सर्वैः प्रकीर्तितम् । अहं ममात्मको बंधो मोक्षस्ताभ्यां विवर्जितः ॥७७॥ योगश्चित्तस्य रोधो वै ध्यानं निर्विषयं मनः । कर्म सत्कर्मरूपं वै ज्ञातव्यं विबुधैः सदा ॥७८॥ ब्रह्मार्पणात्मकं सर्वमकर्म कथितं किल । विकर्म पापाचरणं सर्वशास्त्रैः प्रकाशितम् ॥७९॥ ज्ञानं ब्रह्माहमित्युक्तं तपो द्वंद्वसमात्मकम् । दैवतं सर्वपूज्यं वै गाणेशं विद्धि मानद ॥८०॥ देवस्य भजनं सारं नवधा सततं नृप । असारं विषयाणां वै भजनं नवधा स्मृतम् ॥८१॥ मान्यं संकथितं वेदैः पुराणैः स्मृतिभिर्भवेत् । वेदाधारविहीनं यदवमान्यं मनीषिभिः ॥८२॥ सर्वेशं हृदि संस्थं वै विद्धि बुद्धिप्रचालकम् सर्वं ते कथितं स्वामिन् मोचयस्वाऽनिलात्मजम् ॥८३॥ एतस्मिन्नंतरे तत्र विमानं सहसाऽऽगतम् । दिव्यभोगसमायुक्तं तद्ददर्श युधिष्ठिरः ॥८४॥ मुमोच नहुषो भीमं तं तदा बंधनात् प्रभो । देहं त्यक्त्वा विमानस्थो ययौ स्वर्गं नराधिपः ॥८५॥ तत्रेंद्रस्य समीपे सोऽभवदर्धासनस्थितः । गणेशमभजन्नित्यं स नृपोऽनन्यचेत्तसा ॥८६॥ स्वर्गांते स गतो भूपः शुक्लगत्या गजाननम् । विघ्नहीनः स्वभावेन पुण्यश्लोको बभूव ह ॥८७॥ नहुषस्य चरित्रं ते कथितं पापनाशनम् । शृणुयाद्वा पठेद्वाऽपि तस्मै कामप्रदं भवत् ॥८८॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते नहुषचरितं नाम त्रिंशत्तमोऽध्यायः ॥

मुद्गल पुराण (अष्टावतार चरितम्) · पृष्ठ 350, कुल 1023 में से · BharatKosha