मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 364, कुल 1023 में से
संदर्भ में पढ़ेंततस्तस्य महत् सैन्यं हतं धेन्वा बलेन वै । राजा खेदसमायुक्तो पपाल गतमत्सरः ॥१९॥ कामधेनुर्गता स्वर्गं पुना राजा समाययौ । हृदि विव्याध बाणेन मुनिः सोऽपि ममार ह ॥२०॥ ततस्तं भर्त्सयामास रेणुका भूमिपाधमम् । एकविंशति- बाणैस्तां नृपो विव्याध सर्वतः ॥२१॥ ततः सा क्षुभिताऽत्यंतं तमुवाच नृपाधमम् । स्वल्पकालेन राजंस्त्वं मरिष्यसि न संशयः ॥२२॥ सहस्रबाहुच्छेदस्ते भविष्यति सुदुर्मते । ततः सोऽपि भयोद्विग्नो जगाम नगरे स्वके ॥२३॥ गते भूपे मुनेः पत्नी रुरोद करुणस्वरा । सस्मार तनयं रामं बदर्याश्रमगं प्रभुम् ॥२४॥ स्मृतिमात्रेण रामः स ययौ मातुस्तदांतिकम् । दृष्ट्वा मृतं महाविप्रं पितरं प्ररुरोद ह ॥२५॥ मातरं बाणनिचयैश्चितां वीक्ष्य विशेषतः । प्रभुर्निष्कासयामास शरान् मातुः शरीरगान् ॥२६॥ ततस्तं रेणुकादेवी सांत्वयामास युक्तितः । मा शोकं कुरु पुत्र त्वं स्थास्यामि निकटे प्रभो ॥२७॥ दत्तात्रेयं समानीय कुरु कर्म यथाविधि । आवयोः प्रभविष्यावो देहयुक्तौ पुनः प्रभो ॥२८॥ नान्यो वक्ता न संदेहः स्तस्माद्यत्नपरो भव । जहि दुष्टं च भूपं त्वं हस्तानां छेदनं कुरु ॥२९॥ ततस्ते जनकं तत्र तस्य देहोद्भवेन च । रक्तेन तर्पयस्व त्वं तृप्तः सोऽपि भविष्यति ॥३०॥ ममांगे एकविंशच्च बाणास्तेन समर्पिताः । एकविंशतिवारं त्वं कुरु निःक्षत्रियां धराम् ॥३१॥ एवमुक्त्वा गता देवी स्वर्गे देहं विसृज्य सा । रामस्तथा चकाराऽसौ दत्तेन सहितस्ततः ॥३२॥ पंचमे दिवसे रामः कर्म कृत्वा समास्थितः । दत्तात्रेयश्च स्वस्थाने ययौ भिक्षार्थमादरात् ॥३३॥ षष्ठे दिने समायातः व्याघ्रस्तत्र महाबलः । तं दृष्ट्वा भयसंयुक्तो रामः सस्मार मातरम् ॥३४॥ स्मृतिमात्रेण साऽऽयाता शिरोमात्रा प्रजापते । तां दृष्ट्वा विस्मितो रामस्तमुवाच हि रेणुका ॥३५॥ किमर्थं पुत्रकाऽऽहूता तव स्नेहात् समागता । ततोऽंतर्धानमकरोद्व्याघ्रः परम- दुर्जयः ॥३६॥ एतस्मिन्नंतरे तत्र दत्तात्रेयः समाययौ । दृष्ट्वा तां राममामंत्र्योवाच योगविदां वरः ॥३७॥ समागता त्वया तात किमर्थं रेणुका स्मृता । न्यूनदेहा विशेषेण कुरु कर्म यथातथम् ॥३८॥ वृत्तांतं कथयामास रामस्तं मुनिसत्तमम् । चकार कर्म सांगं तद्दत्तेन सहितः प्रभुः ॥३९॥ सर्पिंडीकरणं रामश्चकार द्वादशेऽहनि । पाथेयश्राद्धमेवं स त्रयोदशदिने तथा ॥४०॥ ततः स जमदग्निस्तं दिव्यदेहः समागतः । राममालिंग्य संहृष्टो बभूव मुनिसत्तमः ॥४१॥ जमदग्निं ततो दत्तो रेणुकां हर्षसंयुक्तः । उवाच भावगंभीरो बोधयन् बोधदायकः ॥४२॥ गणेशं मंत्रराजेन भजतं भावपूर्वकम् । तेन विघ्नविहीनौ च शांतिरूपौ भविष्यथः ॥४३॥ क्षत्रहस्तेन मरणं युवाभ्यां प्राप्तमेव च । विघ्नराजमविज्ञाय जातौ