मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 368, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ३८ पान ८४ क्षत्रकुलोद्भवाः । निःक्षत्रियां धरां दक्ष चकार स पुनः पुनः ॥७१॥ एकविंशतिवारं च कृत्वा निःक्षत्रियां धराम् । क्षत्रियाणां च रक्तेन तर्पयामास पूर्वजान् ॥७२॥ यज्ञं कृत्वा ददौ पृथ्वीं ब्राह्मणेभ्यो महायशाः । समुद्रेण ततस्तस्मै दत्ता पृथ्वी भयाद्विधे ॥७३॥ तत्राऽयं संस्थितो रामो भजते गणनायकम् । अनन्यभावसंयुक्तो गाणपत्योऽधुना महान् ॥७४॥ इदं ते कार्तवीर्यस्य रामस्य च महाद्भुतम् । जमदग्ने रेणुकायाश्चरितं कथितं मया ॥७५॥ यः शृणोति नरो भक्त्या पठेद्वा तस्य संभवेत् । भुक्तिमुक्तिप्रदं दक्ष चिंतितार्थप्रदं परम् ॥७६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिते परशुरामचरितकथनं नाम सप्तत्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । कार्तवीर्यस्य पुत्रास्तु शतं तत्र महारथाः । पंचैव बलिनः शूरा धर्मात्मानो यशस्विनः ॥१॥ जयध्वजः शूरसेनो वृषभोऽथ पुरुजितौ । जयध्वजस्तत्र राजा मुख्योऽभूत् स प्रजापते ॥२॥ जयध्वजस्य पुत्रोऽभूत्तालजंघः प्रतापवान् । तस्य पुत्रशतं जज्ञे तालजंघा इति स्मृताः ॥३॥ तेषां ज्येष्ठो महाबाहुर्वीतिहोत्रोऽभवन्नृपः । वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥४॥ वृषो वंशकरश्चासीत्तस्य पुत्रोऽभवन् मधुः । मधोः पुत्रशतं जज्ञे वृष्णिज्येष्ठः स वंशकृत् ॥५॥ वीतिहोत्रसुतश्चैवानंतनामा महायशाः । दुर्जयस्तस्य पुत्रोऽभूत् सर्वशास्त्रविशारदः ॥६॥ तस्य भार्या गुणैर्युक्ता पातिव्रत्य- परायणा । वने स तु ययौ राजोर्वशीं तत्र ददर्श ह ॥७॥ तस्यां सक्तः स्वयं कामी न सस्मार स्वकां स्त्रियम् । गते बहुतिथे काले ययौ कण्वेन बोधितः ॥८॥ स्वगृहं पुनरेवाऽसौ प्रायश्चित्तं चकार वै । याजयामास तं कण्वः स विनीतो बभूव ह ॥९॥ तस्य पुत्रो बभूवाऽपि सुप्रतीक इति श्रुतः । सहस्रजित् कुलभवं सर्वं ते कथितं त्विदम् ॥१०॥ यदुपुत्रस्य वंशं वै शृणु क्रोष्टोः प्रजापते । क्रोष्टोरेको वृजिनवानिति पुत्रोऽभवच्छ्रुतः ॥११॥ तस्य पुत्रोऽभवच्छ्वाह्निः कुशेकूस्तत्सुतो मतः । कुशेश्रोश्चाऽभवत्पुत्रो नाम्ना चित्ररथो बली ॥१२॥ पुत्रश्चित्ररथस्याऽभूच्छशबिंदुस्ततोऽभवत् । दशलक्षसहस्राणि तेषु ज्येष्ठः पृथुश्रवाः ॥१३॥ उशनास्तस्य पुत्रोऽभूद्धर्म एव स कथ्यते । तस्माद्रुचकनामाऽभूत्ततः पंच सुता मताः ॥१४॥ तेषु वंशधरः प्रोक्तो ज्यामघो लोकविश्रुतः । तस्माद्विदर्भः पुत्रोऽभूद्विदर्भाच्च क्रुशक्रथौ ॥१५॥ लोमपादस्तृतीयस्तु