मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 372, कुल 1023 में से
संदर्भ में पढ़ेंपुपूज भक्तिभावेन तं तुष्टाव गजाननम् ॥३१॥ अथर्वशिरसा तेन स्तुतस्तं प्रत्युवाच ह । वरं वरय दास्यामि मा खेदं कुरु केशव ॥३२॥ श्रीविष्णुरुवाच । यदि प्रसन्नभावेन वरदोऽसि गजानन । शापं मे भृगुसम्भूतं निवर्तय महाप्रभो ॥३३॥ अत्रैव वाससंस्थानं देहि ते भजनाय मे । निर्विघ्नं सर्वदा स्वामिन् कुरु मां त्वत्पदप्रियम् ॥३४॥ ओमित्युक्त्वा स्वयं ढुंढिरूचिवान् भक्तमुत्तमम् । मा चिंतां कुरु विष्णो त्वं शृणु मे परमं वचः ॥३५॥ भृगोर्मदीयभक्तस्य तस्य वाणीं न वै मृषा । करिष्यामि कदा तस्मान् मृत्युलोके पतिष्यसि ॥३६॥ तत्रैव ते सदा ज्ञानं नष्टं नैव भविष्यति । मत्प्रसादाच्च देवेश स्वेच्छाचारी सदा सुखी ॥३७॥ देवैः संप्रार्थितस्त्वं वै दैत्यादीनां वधाय च । धर्मसंस्थापनार्थायोऽवतारं प्रधरिष्यसि ॥३८॥ तत्र ते कीर्तिरत्यंतं भविष्यति विशेषतः । यशो महत् पृथिव्यां त्वं स्थापयिष्यसि केशव ॥३९॥ तत्र त्वदीयभक्ताश्च भविष्यंति विशेषतः । तेषां चतुर्विधां वाञ्छां पूरयिष्यसि नित्यदा ॥४०॥ पुनश्च देवकार्यं च कृत्वा देव जनार्दन । वैकुंठे ते सदा वासो भविष्यति न संशयः ॥४१॥ स्वेच्छया देहवांस्त्वं वै भविष्यसि न संशयः । मत्प्रसादात् हृषीकेश सर्वं ते वाञ्छितं भवेत् ॥४२॥ अन्यत्त्वया च देवेश प्रार्थितं तद् भविष्यति । वस त्वं क्षेत्रगो भूत्वा स्थानं दत्तं मयाऽक्षयम् ॥४३॥ इत्युक्त्वाऽंतर्दधे दक्ष गणेशः करुणानिधिः । विष्णुना तत्र संवासः कृतो भक्त्या प्रजापते ॥४४॥ पूर्वदिग्भागदेशे वै स्थापितो गणनायकः । विष्णुर्विनायक इति नाम तस्य कृतं द्विजैः ॥४५॥ एत्तते कथितं दक्ष देहधारणकारणम् । विष्णोर्देवाधिपस्याऽपि नानायोनिसमुद्भवः ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खंडे महोदरचरिते विष्णुदेहधारणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः । मुद्गल उवाच । पुरोर्वंशे महाभागा राजानो धर्मशालिनः । बभूवुर्यज्ञकर्तारः स्वधर्मनिरताः किल ॥१॥ तेषां चरित्रमत्यंतं कथनाय न शक्यते । बहुत्वात् कारणं दक्ष शृणु ते कथयाम्यहम् ॥२॥ पुरोर्वंशे महाराज शांतनुः प्रबभूव ह । विख्यातो धर्मशीलश्च प्रजापालनतत्परः ॥३॥ तस्य पुत्रोऽभवच्छ्रेष्ठो भीष्मो धर्मपरायणः । गंगायां सर्व- शास्त्रज्ञो ब्रह्मचर्यपरायणः ॥४॥ सत्यवत्यां च पुत्रौ द्वौ शांतनोर्वै बभूवतुः । चित्रांगदो महाबाहुर्विचित्रवीर्यकोऽपरः ॥५॥ चित्रांगदो महातेजाः पस्पर्धे क्षत्रियान् सदा । चित्रांगदेन युद्धे स गंधर्वेण हतोऽभवत् ॥६॥ विचित्रवीर्यकस्तत्र यक्ष्मणा