मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 39, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. १७ पान ३९ भोगानंते योगमयो भवेत् । दर्शनात्तस्य लोकानां सर्वपापं लयं व्रजेत् ॥२६॥ ॥ ओमिति श्रीमदान्द्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खंडे वक्रतुंडचरिते गणेशगीतासारकथनं नाम षोडशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शिव उवाच । गणेशगीतासारं ते श्रुत्वा पंच सुरेश्वराः । ऊचुस्तं विस्मिताः सर्वे प्रणम्य गणनायकम् ॥१॥ पंच देवा ऊचुः । भगवन् भवता सर्वं कथितं तथ्यमेव च । तेन तृप्ता वयं स्वामिन् मोहशून्याः कृतास्त्वया ॥२॥ तव दर्शन- मात्रेण स्मरणं पूर्वकं कृतम् । गुणरूपा वयं ढुंढे कथं ब्रह्ममया वद ॥३॥ तेषां वचनमाकर्ण्य तानुवाच गजाननः । भक्तवत्सलभावेन तोषितोऽसौ महाप्रभुः ॥४॥ गणेश उवाच । स्वपदे जगति ब्रह्मरूपा वै जगदीश्वराः । भिन्नभावे गुणा- त्मानो भवंतोऽपि मया कृताः ॥५॥ चतुर्विधेन भावेन क्रीडामि ननु तत्र च । क्रीडया पतितं बिंबं तेन पंचविधोऽभवम् ॥६॥ बह्वेषु विलासेषु तेषु भावेषु देवपाः । भवंतो मदधीनाश्च संस्थिता नात्र संशयः ॥७॥ एषु भिन्नविहारेषु रजःसत्त्व- तमोमयाः । मया ब्रह्मा हरिः शंभुर्भिन्ना जाता हि मायया ॥८॥ अहंकारस्त्रिदेवानां सूर्यो मोहमयी तथा । शक्तिस्त्रिगुण- सिद्ध्यर्थमेते पंच मया कृताः ॥९॥ अहमत्र स्थितोंऽशेन वक्रतुंड इति स्मृतः । बिंदुब्रह्ममयः साक्षाद्भिन्नभावप्रकाशकः ॥१०॥ तुरीयं मे मया रूपं कृतं यद् गुणपं सुराः । ज्ञातव्यं बुद्धिरूपं तद्दक्षिणांगं प्रकथ्यते ॥११॥ पंचदेवविहाराख्यं वामांगं सिद्धिरूपकम् । सिद्धिबुद्धियुतोऽहं वै बिंदुमात्रात्मकोऽभवम् ॥१२॥ भक्तानां विघ्नरूपा ये वक्रास्ते कथिताः सुरैः । तांस्तुंडेन हनिष्यामि वक्रतुंडस्ततः स्मृतः ॥१३॥ मम माया मयाज्जीवाद्दूक्रं ब्रह्ममुखं यतः । तेनाऽहं वक्रतुंडस्तु लभ्य उन्मनसा भवेः ॥१४॥ भवतां कार्यसिद्ध्यर्थं विहारार्थं तु मायया । बिंदुरूपधरो भूत्वा स्थितोऽहं भावपूर्वकम् ॥१५॥ यदि मे स्मरणं यूयं विस्मरिष्यथ वै तदा । मायामोहेन संभ्रांता भविष्यथ महेश्वराः ॥१६॥ भवद्भिः सततं तस्मात् कर्तव्यं स्मरणं हृदि । आदौ पूज्यो भविष्यामि दैवे पित्र्ये च कर्मणि ॥१७॥ तेन सिद्धियुताः सर्वे भविष्यंति न संशयः । इत्युक्त्वांतर्दधे देवो