मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 391, कुल 1023 में से
संदर्भ में पढ़ेंखं. ३ अ. ४९ पान १०७ रिपुश्रितम् ॥१६॥ बालं मत्वा न दुष्ट त्वां हतवान् कृपया शठ । अधुना तादृशं मत्वा न मुंचामि कदाचन ॥१७॥ त्यज शत्रुं महामूर्ख नोचेद्धन्म्यधुना किल । एवमुक्त्वा खड्गहस्तो दुद्राव स्वसुतं नृप ॥१८॥ ततस्तं दैत्यराजं स उवाच तनयो वचः । किं धर्षयसि मां तात भ्रांतिभावेन मोहितः ॥१९॥ सर्वसत्ताधरः प्रोक्तो वेदेषु गणनायकः । तस्य सत्तां परित्यज्य किं मां हंसि त्वमेव च ॥२०॥ सुरासुरमयः साक्षाद्गणेशो नात्र संशयः । उद्धतं हंति वेगेन नानारूपधरः प्रभुः ॥२१॥ ब्रुवंतं स्वसुतं दृष्ट्वा भयहीनं युधिष्ठिर । क्रोधयुक्तः स्वयं तत्र संस्थितो दैत्यनायकः ॥२२॥ दूतानाज्ञापयामास शस्त्रास्त्रैः स्वसुतस्य सः । वधार्थं ते दैत्यगणाः क्रोधयुक्ता बभूविरे ॥२३॥ नानानादयुताः सर्वे नग्नशस्त्रधरा ययुः । हंतुं तं तानथो दृष्ट्वा सुबोधो निर्भयो बभौ ॥२४॥ गणेशभजने सक्तो बभूव न चचाल ह । देहप्रारब्धभावेन भवेत्तन् मे गजानन ॥२५॥ विघ्नेश हेरंब जयाखिलेश स्वानंदवासिन् जय वक्रतुंड । नाथोऽसि सर्वत्र जगत् सुढुंढे लंबोदर ब्रह्मसुते नमो वै ॥२६॥ इत्याद्यैर्विविधैर्वाक्यैर्गणेशमभजत् सुतः । तं तथा क्रोधसंयुक्ता जघ्नुर्दैत्या महाबलाः ॥२७॥ नानाशस्त्रनिपातैस्तेऽस्त्रैः सर्वत्र युधिष्ठिर । गणेशस्तस्य देहस्थो निष्फलांस्तांश्चकार ह ॥२८॥ क्रोधानलेन सर्वान् स दाहयामास विघ्नपः । ततः पलायनं चक्रुर्दैत्याः प्राणपरीप्सया ॥२९॥ तत् दृष्ट्वा परमाश्चर्यं ज्ञानारिः क्रोधमूर्च्छितः । श्रेष्ठानाज्ञापयामास वधाय स्वसुतस्य वै ॥३०॥ चतुरंगबलैर्युक्ता दैत्येशास्तं समाययुः । अमोघास्त्रैः सुबोधं ते जघ्नुः परमदारुणाः ॥३१॥ गणेशभक्तिं तां सोऽपि चक्रे वै निर्भयो दृढाम् । जय देवेश विघ्नेश महोदर नमोऽस्तु ते ॥३२॥ तस्य देहान् महानग्निः शस्त्रघातच्छलेन सः । समुत्पन्नः प्रजज्वाल दैत्येशान् क्षणमात्रतः ॥३३॥ ते मेघास्त्राणि ससृजुस्तैर्न शांतो बभूव ह । ददाह सकलांस्तत्र प्रलयाग्निसमश्च तान् ॥३४॥ मृताः सर्वे सुराणां वै नायकास्तत्र भूमिप । ज्ञानारिः परमाश्चर्ययुक्तोऽभूत् खेदसंयुतः ॥३५॥ प्रधानैः स विचार्यैवं पुत्रं तत्याज तत्क्षणात् । शुक्रं तपसि तिष्ठंतं ज्ञात्वा क्रोधं नियम्य च ॥३६॥ मेधावी स यदा शुक्र आगमिष्यति वै गृहे । तदा तेन समायुक्ता हनिष्यामः सुबोधकम् ॥३७॥ एवं निश्चितसंकल्पाः स्थितास्ते दैत्यनायकाः । ज्ञानारिः स तथा चक्रे हृदयेन विदूयता ॥३८॥ सुबोधो गणपं तत्राऽभजत् सोऽनन्यमानसः । निर्भयो दानवान् सर्वान् तृणीकृत्य विशेषतः ॥३९॥ ततस्तेन सुबोधेन दैत्यपुत्रा युधिष्ठिर । शिक्षिताः प्रत्ययं दृष्ट्वा तथा गणपमाभजन् ॥४०॥ सत्यं गणेशमाहात्म्यं महत्तन्नात्र संशयः । संदश्य दैत्यभूपाला मृताः कक्षवदप्यहो ॥४१॥ एवं विचार्य सर्वत्र बाला