मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 416, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ६ पान १८
ज्ञात्वा रोषितं शतधन्वाऽक्रूरमाययौ ॥१८०॥ अक्रूरेण समात्यक्तः कृतवर्माणमाययौ । तेनापि न धृतः पक्षः पुनः सोऽक्रूरमाययौ ॥८१॥ मणिं तत्रैव निक्षिप्य पपाल भयसंकुलः । शतयोजनगाऽश्विन्यां समारुह्य नृपात्मज ॥८२॥ पलायमानं विज्ञाय कृष्णः संकर्षणान्वितः । रथमारुह्य वेगेन तमनु प्रययौ तदा ॥८३॥ योजनानां शतं गत्वा ममार ह पुरोऽश्विनी । शतधन्वा भयैर्युक्तः पलायत पदा ततः ॥८४॥ पदातिनं च तं ज्ञात्वा कृष्णोऽधावत् सुसत्वरः । पदातिर्बलभद्रे स रथं त्यक्त्वा महाद्युतिः ॥८५॥ ततश्चक्रेण कृष्णेन हतस्तत्र पपात ह । शतधन्वा तेन तस्मिन् न दृष्टो मणिरुत्तमः ॥८६॥ ततः शोकसमायुक्तो बलभद्रमुवाच ह । शतधन्वा हतो हीनो मणिना तत्र मानद ॥८७॥ उवाच कोपयुक्तस्तं स ततो रोहिणीसुतः । मणिस्त्वया सुसंगुप्तो मिथ्या वाक् त्वं महाखल ॥८८॥ अग्रजाय प्रदातव्यस्तदर्थं मणिरादरात् । कृतं त्वया महालोभिन् कर्म साधु जुगुप्सितम् ॥८९॥ ततस्तं विनयेनैव सांत्वयामास केशवः । द्विजदेवगवां ते मे शपथो न कृतं मया ॥१९०॥ तं तिरस्कृत्य वेगेन त्यक्त्वा रामो जगाम ह । विदर्भं राजनीतिज्ञं स्वमित्रं नृपतिं तदा ॥९१॥ ततोऽतिदुःख- संयुक्तः कृष्णः परमदारुणम् । रुरोद बलभद्रं स स्मृत्वा स्मृत्वा विशेषतः ॥९२॥ ज्ञानदृष्ट्या स कृष्णेन मणिर्नाप्तो महीपते । ततोऽतिदुःखितो भूत्वा रुरोद च पुनः पुनः ॥९३॥ अहो ज्ञानं मदीयं यद्गतं कुत्र विशेषतः । नरतुल्यः कृतः केन धिङ् मे जीवितकं किल ॥९४॥ रथसंस्थः समायातो द्वारकायां महायशाः । लोकवृत्तांतमुग्रं स कथयामास विस्तरात् ॥९५॥ ततो यादवमुख्यैः स भर्त्सिसतोऽतिविशेषतः । कृष्णः सत्राजितः कर्म चकारोत्तरकं नृप ॥९६॥ देशे देशे नृपाद्याश्च जनाः कृष्णं विशेषतः । निंदिंदुः कर्म कृष्णेन किं कृतं दुष्टबुद्धिना ॥९७॥ समर्थं बलभद्रं योऽत्यजज्ज्येष्ठं सुदुर्मतिः । मणिलोभी महापापी विश्वास्यो नैव केनचित् ॥९८॥ द्वारकायां जनाः सर्वे तं कृष्णं न प्रमेनिरे । त्यक्तः सर्वैस्तथा कृष्णः शुशोच परमव्यथः ॥९९॥ अस्थित्वचासमायुक्तं सदा स्वगृहसंस्थितम् । नारदस्तं समालोच्याययौ दृष्ट्वा सुविस्मितः ॥२००॥ तं प्रणम्य महात्मानं कृष्णः परमदुःखितः । उवाच भावभक्त्या वै कृतांजलिपुटः शनैः ॥१॥ श्रीकृष्ण उवाच । सर्वैः संत्याजितो दुःखी गृहे नित्यं वसाम्यहम् । तन्न ते दर्शनं स्वामिन्नभवत् भाग्ययोगतः ॥२॥ ततस्तं नारदः प्राह किमर्थं त्यज्यसे वद । एवं पृष्टः पुनः प्राह वृत्तांतं सर्वमंजसा ॥३॥ श्रुत्वा वृत्तांतमुग्रं वै ध्यानेनालोक्य नारदः । देहत्यागे समुद्योगं कुर्वंतं तमुवाच ह ॥४॥ नारद उवाच । भाद्रशुक्लचतुर्थ्यां च त्वया चन्द्रो विलोकितः । शप्तोऽसौ विघ्नराजेन तेन