मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 425, कुल 1023 में से
संदर्भ में पढ़ें॥६३॥ घोषेण घोषयामास ततः सर्वे तथाऽभवन् । व्रतं ततो वै बभूव प्रशस्तं भूमिखंडले ॥६४॥ एवं भूमंडले राज्यं कृत्वा पुत्रे निवेद्य सः । वने गत्वा गणेशानं सस्त्रीको नृप आभजन् ॥६५॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये स्थिता लोकाः सर्वे स्वानंदगा बभुः ॥६६॥ एवमन्यं दशरथ शृणुष्व त्वं व्रतोद्भवम् । इतिहासं प्रवक्ष्यामि चाश्विन्यां परमाद्भुतम् ॥६७॥ भीमो नाम महाव्याधः पापकर्मपरायणः । मार्गे जनान् निहत्वाऽगृह्य धनं स तुतोष ह ॥६८॥ एकदा वनमध्ये स ब्राह्मणं हंतुमुद्यतः । पलायत द्विजस्तत्र वने भयसमाकुलः ॥६९॥ एतस्मिन्नंतरे तत्राश्वगः शस्त्रधरः पुमान् । धावंश्च ब्राह्मणं दृष्ट्वा भीमं धृत्वा गतः पुरे ॥७०॥ ततो द्विजः सुखेनैव स्वाश्रमं प्रजगाम ह । पुरुषो भीमव्याधं तं राज्ञे दुष्टं न्यवेदयत् ॥७१॥ तत्र सोऽपि क्षुधाविष्टो व्याधः संस्थापितोऽभवत् । राज्ञाऽऽश्विन्यां चतुर्थ्यां वै शुक्लायां दैवयोगतः ॥७२॥ पंचम्यां तं जघानैव ततो व्याधं गजाननः । चतुर्थ्यां क्षुधितत्वात् स ब्रह्मभूतं चकार ह ॥७३॥ एवं नानाजना राजन् चतुर्थीव्रतयोगतः । स्वानंदस्था भवंतीह मया वक्तुं न शक्यते ॥७४॥ चतुर्थीजमिदं चित्रं चरितं कथितं मया । शुक्लाऽऽश्विन्यां समुद्भूतं श्रवणात् सर्वसिद्धिदम् ॥७५॥ शृणुयाद्यः पठेद्वाऽपि भुक्तिं मुक्तिं लभेन्नरः । पुत्रपौत्रादि- संयुक्तः सुहृद्भिर्नृपसत्तम ॥७६॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्लाऽश्विनी चतुर्थी व्रतवर्णनं नामाष्टमोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ वसिष्ठ उवाच । कार्तिके मासि शुक्ला या चतुर्थी सर्वसिद्धिदा । तां शृणुष्व महाभाग इतिहास- समन्विताम् ॥१॥ सूर्यवंशोद्भवो राजा सुधन्वा नीतिसंयुतः । शस्त्रास्त्रबलसंयुक्तो बभूव परमद्युतिः ॥२॥ धर्मशीलो वदान्यश्च सत्यवाक् साधुसंमतः । देवविप्रातिथिप्राज्ञपंचयज्ञपरायणः ॥३॥ भार्या कलावती तस्य बभूवे रूपशालिनी । पतिव्रता महोदारा धर्मशीला विशेषतः ॥४॥ जित्वा भूमंडलं सर्वं राजा तेजस्विनां वरः । पालयामास पृथिवीं स नित्यं धर्मपरायणः ॥५॥ सामंता वशगा यस्य सैन्यं स्म गणनातिगम् । संपच्च धनदेनैव तुल्या सर्वत्र संबभौ ॥६॥ अर्द्धायुषा समायुक्तो बभूव नृपसत्तमः । अकस्मात् कुष्ठसंयुक्तः कीतैः संपीडितोऽभवत् ॥७॥ पूयशोणितघर्मौघैर्व्याप्तो दुर्गंधिसंयुतः ।