मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 427, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ९ पान २९ ॥३३॥ अधुना तद्व्रतं ब्रूहि कीदृशं कस्य पूजनम् । कस्मिन् काले प्रकर्तव्यं सर्वसिद्धिप्रदायकम् ॥३४॥ कुष्ठनाशार्थमेवं मे वदोपायं महाप्रभो । प्रायश्चित्तं करिष्यामि व्रतलोपप्रदोषहृत् ॥३५॥ एवं पृष्टो महायोगी पुलस्त्यो हर्षसंयुक्तः । तं जगाद गणेशाय नम इत्युपसंस्मरन् ॥३६॥ पुलस्त्य उवाच । अज्ञानेन कृतं दोषं प्रायश्चित्तेन हंति तम् । नरस्तस्मात्त्वमेवाशु व्रतं कुरु जनैः सह ॥३७॥ तेन कुष्ठविहीनस्त्वं सुरूपः प्रभविष्यसि । अनुतापाच्च ते राजन् पापं नष्टं न संशयः ॥३८॥ इत्युक्त्वा तं ततो योगी जगाद व्रतसंभवाम् । कथां सर्वां स संश्रुत्य हर्षयुक्तो नृपोऽभवत् ॥३९॥ उवाच तं मुनिश्रेष्ठं प्रणम्य च पुनः पुनः । धन्यं मे जन्म भो नाथ श्रुतं येन महद्व्रतम् ॥४०॥ नानेन सदृशं किंचिन् मया ज्ञातं महामते । त्वत्तो वद महाप्राज्ञ गणेशस्य स्वरूपकम् ॥४१॥ तज् ज्ञात्वा सर्वभावेन भजिष्यामि महामुने । नित्यं भक्तिसमायुक्तो देवदेवेशमादरात् ॥४२॥ एवं पृष्टः स राजानं वचनं प्रजगाद ह । पुलस्त्यः सर्वभावज्ञो गाणपत्यो महायशाः ॥४३॥ पुलस्त्य उवाच । सुधन्वञ्छृणु मे वाक्यं गणेशज्ञानकारकम् । ब्रह्मभूयमयं पूर्णं योगाकारं विशेषतः ॥४४॥ पुराऽहं योगशांत्यर्थं नानायोगपरायणः । असाधयञ्छ्रमेनैव दमेन मनसो जयात् ॥४५॥ तथापि शांतिहीनोऽहं शरणं शंकरं गतः । तं प्रणम्य महात्मानमपृच्छं योगमुत्तमम् ॥४६॥ ततस्तेन समाख्यातं तच्छृणुष्व नराधिप । येन त्वं गाणपत्यश्च साधनेन भविष्यसि ॥४७॥ श्रीशिव उवाच । योगशांतिमयं विद्धि गणेशं भज भावतः । मनोवाणीविहीनं तं मनोवाणीमयं न च ॥४८॥ मनोवाणीमयं सर्वं संप्रज्ञातसमुद्भवम् । गकाराक्षरगं विद्धि पठ्य वेदे महामते ॥४९॥ मनोवाणीविहीनं यदसंप्रज्ञातगं मतम् । णकाराक्षरसंभूतं नाम्नो गणपतेर्यदि ॥५०॥ तयोः स्वामी गणेशानः शांत्या योगेन लभ्यते । चित्तभूमिनिरोधेन तं भजस्व विनायकम् ॥५१॥ एवमुक्त्वा महादेवो विरराम विशेषवित् । तं प्रणम्य वनं गत्वाऽसाधयं तं सुयत्नतः ॥५२॥ अष्टाक्षरेण मंत्रेण ध्यात्वा गणपतिं नृप । अतोषयं विशेषेण चित्तनिग्रहभावतः ॥५३॥ ततः स्वल्पेन कालेन शांतिं प्राप्तोऽहमात्मनि । तथापि मंत्रराजं तमजपं पूजने रतः ॥५४॥ एकविंशतिवर्षेषु गतेषु स विनायकः । आययौ मे वरं दातुं भक्तानुग्रहकारकः ॥५५॥ तं दृष्ट्वा प्रणतो भूत्वाऽपूजयं तु यथाविधि । स्तौमि नामाष्टकेन स्म कौथुमेन महाप्रभुम् ॥५६॥ गाणपत्यं स मां कृत्वा ययौ स्वानंदके पुरे । तदारभ्याहमत्यंतं भजामि गणनायकम् ॥५७॥ एवमुक्त्वा महीपालं तथा दशरथं स्वयं । मंत्रमष्टाक्षरं तस्मै ददौ विधिसमन्वितम् ॥५८॥ तेन स्तुतो महायोगी पुलस्त्योंऽतर्दधे प्रभुः । राजा स्वनगरे गत्वा कार्तिके