मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 438, कुल 1023 में से
संदर्भ में पढ़ेंसं व्याप्तं तपसा सर्वं मदीयेन महामते ॥२५॥ इंद्रः प्रक्षुभितोऽत्यंतं काममप्सरसा युतम् । प्रेषयामास विघ्नार्थं तपसो मे मदान्वितः ॥२६॥ ततः सोऽपि भयोद्विग्नः कामो दाहसमन्वितः । तपसस्तेजसा सत्यं पलायत स सैनिकः ॥२७॥ ततोऽहं तपसा युक्तोऽतन्निष्ठश्चाऽभवं नृप । तपस्त्यक्त्वा महाबाहो शमदमपरायणः ॥२८॥ नानाभूमिपरो जातस्ततोऽतिभाग्य- गौरवात् । निदाघः सहसा तत्राऽऽगतोऽवधूतमार्गवित् ॥२९॥ दृष्ट्वा तं योगिनं पूर्णं प्रणतोऽहं विशेषतः । अपूजयं विधानेन ततस्तं स्म वदामि वै ॥३०॥ धन्यो मे जनको माता तपो धन्यं जनुस्तथा । ब्रह्मभूयप्रदस्याऽपि पादपद्मस्य दर्शनात् ॥३१॥ अधुना वद मे नाथ योगं शांतिप्रदायकम् । येनाऽहं योगिवंद्यश्च भवेयं साधनान् मुने ॥३२॥ वसिष्ठ उवाच । इति पृष्टो महातेजा निदाघस्तमुवाच ह । पर्वतं तपसा शुद्धं प्रहृष्टेनांतरात्मना ॥३३॥ निदाघ उवाच । शृणु वृत्तं मदीयं ते कथयामि पुरातनम् । येन योगींद्र वंद्यश्च जातोऽहं योगसेवया ॥३४॥ अहं योगार्थमत्यंतं योगभूमिपरायणः । असाधयं महायोगं ब्रह्मभूयकरं परम् ॥३५॥ ततोऽतेऽहं सदानंदे समः स्वानंदकेऽभवम् । संस्थितस्तत्र भो राजन् दृष्ट्मानंदरूपकम् ॥३६॥ द्वंद्वैः सर्वत्र संव्याप्तं द्वंद्वे तद् योगरूपि च । तेन शांतिर्गता मेऽभूत्ततो विष्णुं गतोऽभवम् ॥३७॥ तं प्रणम्य महात्मानमवदं वद शांतिदम् । योगं विष्णो महायोगिन् येन शांतो भवाम्यहम् ॥३८॥ विष्णुरुवाच । योगशांतिप्रदं तात गणेशं विद्धि मानद । तं ज्ञात्वा शांतिमापन्ना वयं सर्वे च योगिनः ॥३९॥ मनोवाणीमयं विद्धि गकारं च तयोः परम् । मनोवाणीविहीनं तं णकारं योगिसंमतम् ॥४०॥ तयोः स्वामी गणाधीशस्तं भजस्व विधानतः । ततः शांतिं महाभाग लभसे नाऽत्र संशयः ॥४१॥ एवमुक्त्वा महाविष्णुर्विरराम स्वयं ततः । तं प्रणम्य वने गत्वा योगाभ्यासपरोऽभवम् ॥४२॥ एकाक्षरस्य मंत्रस्य संतुष्टोऽभूद्गजाननः । गतेषु दश वर्षेषु जपेन सहसाऽऽगतः ॥४३॥ ध्यानस्थं मां समालोक्य जगाद वृणु वाञ्छितम् । ततोऽहं तं प्रणम्यैवापूज्य स्तोतुं प्रचक्रमे ॥४४॥ स्तोत्रं यत् सामवेदोक्तं तच्छ्रुत्वा तुष्टिमागतः । योगशांतिं गणेशानो दत्त्वा मे प्रजगाम ह ॥४५॥ तदादि गाणपत्योऽहं जातस्तं प्रभजामि वै । भजस्व गणराजं त्वमतस्तं शांतिदं परम् ॥४६॥ एवमुक्त्वा निदाघः सं ददौ तस्मै महामनुम् । एकाक्षरं विधानेन ततः सोऽंतर्हितोऽभवत् ॥४७॥ पर्वत उवाच । भजामि गणनाथं स्म ततोऽहं नित्यमादरात् । तेनोक्तविधिना राजन् शांतिं प्राप्तो विशेषतः ॥४८॥ अपूजयं हि गणपं ततो नित्यं तपोध्वितः । ततो मां दर्शयामास रूपं योगमयं प्रभुः ॥४९॥ स्तुतः संपूजितो मे स भक्तिं दत्त्वा महामते । स्वानंदे स गतो राजन्