मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 441, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. १४ पान ४३ कथयामास चरित्रं सकलं द्विजः । चतुर्थीसंभवं तात श्रुत्वा राजा सुविस्मितः ॥२५॥ पुनः पप्रच्छ तं विप्रं विनयेन समन्वितः । कीदृशो गणराजोऽयं व्रतं यस्य महाद्भुतम् ॥२६॥ वद तस्य स्वरूपं मे ज्ञात्वा तं सर्वभावतः । व्रतयुक्तो भजिष्यामि गणेशं सर्वसिद्धिदम् ॥२७॥ अष्टावक्र उवाच । गणेशस्य स्वरूपं तु मया वक्तुं न शक्यते । तथापि शृणु भूपाल येन त्वं ज्ञास्यसि प्रभुम् ॥२८॥ पुराऽहं तपसि प्राज्ञ संस्थितो यत्नधारकः । सुरूपका अप्सरसो याताश्चलयितुं ततः ॥२९॥ तासामत्याग्रहं दृष्ट्वा कुपितः स्म शपामि ताः । मृत्युलोके पतध्वं वै चौरग्रस्ता भवेत हि ॥३०॥ इति मद्गिरमाकर्ण्य भयभीताः समंततः । ता मां प्रसादयामासुस्ततोऽहं दयया युतः ॥३१॥ अवदं तत्र विष्णुर्वै यादवेषु भविष्यति । तस्य पत्न्यो भविष्यंत्योंऽते चौराणां भविष्यथ ॥३२॥ गता अप्सरसो राजंस्ततोऽहं तप आचरम् । प्रभावेणातितपसोंऽतर्ज्ञानं मेऽभवत् परम् ॥३३॥ ततोऽहं तप उत्सृज्य शमी दमपरोऽभवम् । नानायोगविचारेण समाधिं साधयन्नृप ॥३४॥ एवमंते समानंदे संस्थितोऽहं विशेषतः । तत्र मोहं समालोक्य समरूपे सुविस्मितः ॥३५॥ ततः शांत्यर्थमत्यंतं क्लिश्यामि स्म महामते । ततोऽकस्मान् महायोगी ऋभुस्तत्र समागतः ॥३६॥ वर्णाश्रमविहीनं तं दृष्ट्वा हर्षसमन्वितः । प्रणम्याऽहं विशेषेणापूज्यावोचं महामुनिम् ॥३७॥ धन्यं मे तप उग्रं यज्जन्म ज्ञानादिकं तथा । तव पादस्य योगेन कृतकृत्योऽस्मि सांप्रतम् ॥३८॥ एवं मदीयं वाक्यं स श्रुत्वोवाच महामुनिः । किं वाञ्छसि महाप्राज्ञ वदस्वाऽहं करोमि तत् ॥३९॥ ततस्तं प्रणतो भूत्वा कृतांजलिपुटः पुनः । अवदं योगशांतिं मे वद योगींद्रसत्तम ॥४०॥ ऋभुरुवाच । संयोगः पंचधा तात सदसत्समने तितः । स्वसंवेद्यमयेनैव मुने योगेन लभ्यते ॥४१॥ अयोगः पंचभिर्हीनो निवृत्या लभ्यते जनैः । तयोर्योगे भवेद्योगो लभ्यते शांतिमार्गतः ॥४२॥ तमेव गणराजं त्वं ज्ञात्वा भज महामते । तेन शांतिभवं सौख्यं लभसे नान्यथा क्वचित् ॥४३॥ संयोगो हि गकारश्च णकारोऽयोगवाचकः । तयोः स्वामी गणेशानः पश्य वेदे महामते ॥४४॥ अहं पुरा युतो भ्रांत्या नानायोगपरायणः । अभवं तत्र भो विप्र सहजेन समाश्रितः ॥४५॥ स्वाधीनत्वमहो दृष्ट्वा तन्न तेन सुविस्मितः । शरणं शंकरस्यैव गतोऽहं योगकाम्यया ॥४६॥ शंकरेणोपदिष्टः स्म भजामि गणनायकम् । एकाक्षरविधानेन तेन शांतिं गतोऽभवम् ॥४७॥ एवमुक्त्वा गणेशस्य मह्यं मंत्रं ददौ ऋभुः । एकाक्षरस्य मंत्रस्य जपैः शांतिं गतोऽभवम् ॥४८॥ अष्टावक्रः प्रसन्नात्मा योगिवंद्यो महायशाः । तस्मै नृपाय मंत्रं स ददौ द्वादशवर्णकम् ॥४९॥ सविधिं मंत्रराजं तं