मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 450, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. १८ | पान ५२ वरदायाश्च भुक्तिमुक्तिफलप्रदम् ॥५०॥ वंगदेशे समुत्पन्नो वाणिजः पापकारकः । स्वधर्मं स परित्यज्य दुष्टकर्मरतो- ऽभवत् ॥५१॥ द्यूतमद्यादिकं नित्यं हिंसयाऽसेवतान्वितः । बलात् धृत्वाऽभुंक्त परस्त्रियं वशमनागताम् ॥५२॥ तस्य कर्म दुराचारं ज्ञात्वा पित्रा तिरस्कृतः । असकृत्तेन स क्षुब्धो विषं पित्रे ददौ खलः ॥५३॥ विषबाधासमायुक्तः स ममार ददाह तम् । ततो मातरमगम्य धनं जग्राह वै बलात् ॥५४॥ लोकाः सर्वे ततो ज्ञात्वा चेष्टितं दुःखदं परम् । तस्य दुष्टस्य ते तत्र व्यथिताः संबभूविरे ॥५५॥ जनाः श्रेष्ठा नृपं गत्वाऽकथयंस्तद्विशेषतः । चेष्टितं क्षुभितो राजा श्रुत्वा तं तत्र चानयत् ॥५६॥ शूले नृप नरैः प्रोतो दुर्मतिः स नृपाज्ञया । तद्दिने दैवयोगेनाषाढी शुक्ला बभूव ह ॥५७॥ तत्राऽयं जलहीनश्च निराहारः स्थितोऽभवत् । पंचम्यां पीडया युक्तो ममार नृप दुष्टधीः ॥५८॥ अज्ञानव्रतपुण्येन स स्वानंदगतोऽभवत् । महापापी व्रतस्यैव प्रभावेण महीपते ॥५९॥ स्वानंदे गणपं दृष्ट्वा ब्रह्मभूतो बभूव ह । एवं व्रतप्रभावेण जना ब्रह्म प्रलेभिरे ॥६०॥ तन्नैवं कति संख्यातुं शक्यते न कदाचन । वर्षायुतैर्महाराजाऽखिलं केनाऽपि योगिना ॥६१॥ यदि ज्ञानेन सा देवी चतुर्थी साधिता भवेत् । वरदा तत्र किं चित्रं तस्मै ब्रह्मप्रदा भवेत् ॥६२॥ इदमाषाढगायाश्च चतुर्थ्याश्चरितं पठेत् । शृणुयाद्वरदायाश्चेत् स लभेदीप्सितं फलम् ॥६३॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते आषाढशुक्लचतुर्थीचरितवर्णनं नाम सप्तदशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणे वरदायाश्च माहात्म्यं वद विस्तरात् । न तृप्यामि कथां श्रुत्वा ब्रह्मभूयप्रदां प्रभो ॥१॥ वसिष्ठ उवाच । अंगदेशे पुरं श्रीमच्छततारं बभूव ह । राजा राज्यं चकाराश्वसेनसंज्ञोऽपि तत्र हि ॥२॥ धर्मेण नीतियुक्तेन नानादानपरायणः । देवविप्रातिथिप्रेप्सुर्बभूवातिपराक्रमी ॥३॥ नानाव्रतपरो राजा यज्वा तेजस्विनां वरः । शस्त्रास्त्रैः पृथिवीं सर्वां जिग्ये बलसमन्वितः ॥४॥ सार्वभौमः स विख्यातस्त्रिलोकीकीर्तिकारकः । राज्ञः सर्वान् वशे चक्रे सेवकान् करदायिनः ॥५॥ एवं राज्यं वशं कृत्वा भूतलं स चकार ह । ततोऽकस्माज्जवरस्तस्य समुत्पन्नोऽतिदाहकः ॥६॥ ज्वरेण पीडितोऽत्यंतं निशि निद्रां न चाऽलभत् । नानोपायांश्चकाराऽसौ ज्वरहीनो बभूव न ॥७॥ एवं वर्षे गते पूर्णे सोऽस्थिचर्मावशेषितः । अत्यंतदुःखितो राजा विललाप भृशातुरः ॥८॥ विषेण देहपातार्थमुद्यतोऽभून् महीपतिः । जगाम