मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 463, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. २३ पान ६५ ═════════════════════════════════════════════════════════════════════════════════════════════ जनाः ॥३५॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । गुरुरूपेण भानुं स पूजयामास नित्यदा ॥३६॥ गते काले ततः पुत्रं स संस्थाप्य महामतिः । राज्ये निवृत्तिमास्थाय गणेशमभजत् परम् ॥३७॥ अंते स्वानंदगो भूत्वा ब्रह्मभूतो बभूव ह । तस्य राज्ये जनाः सर्वे क्रमात्ते मुक्तिमाप्नुवन् ॥३८॥ एवं व्रतस्य माहात्म्यं लेशतः कथितं मया । अन्यच्छृणु महाभाग पापनाशकं परम् ॥३९॥ द्राविडे भिल्लजातिस्थः क्षत्रियः पापकारकः । भिल्लैः संस्कारहीनश्च संबंधं स चकार ह ॥४०॥ एकदा वनसंस्थश्च द्रव्यलोभी दुरात्मवान् । कंचित् दृष्ट्वा नरं तत्राऽधावच्छस्त्रप्रधारकः ॥४१॥ पपाल सोऽपि दूरं वै नरो भयसमन्वितः । ऋक्षस्तत्र समायातो वने कश्चिन् महाबलः ॥४२॥ तेनैव क्षत्रियः पापी धृतो वेगेन भूमिप । ऋक्षं स तं स शस्त्रेण पातयामास भूतले ॥४३॥ भिल्लस्तत्र पपाताऽसौ भृशमृक्षेण पीडितः । निर्जने वनमध्ये स विललापाऽतिदारुणम् ॥४४॥ दैवयोगेन सा देवी चैत्री संकष्टहारिणी । तद्दिने तेन संप्राप्ता चतुर्थी कृष्णपक्षगा ॥४५॥ जलान्नसंविहीनोऽयं बभूवे पापकारकः । चंद्रोदये फलं तत्र पपात नृप वृक्षतः ॥४६॥ दुष्टेन क्षत्रियेणैव भक्षितं विकलेन तत् । पंचम्यां स मृतस्तत्र ब्रह्मभूतो बभूव ह ॥४७॥ एवं नाना जना राजन् व्रतस्यैव प्रभावतः । इह भुक्त्वाऽखिलान् भोगानंते ब्रह्म प्रलेभिरे ॥४८॥ तन्न ते कति शक्यं न वक्तुं वर्षायुतैरपि । नानेन सदृशं किंचिद्व्रतं सर्वार्थदायकम् ॥४९॥ अज्ञानेन कृतं दुष्टैर्व्रतं गानेश्वरं महत् । ब्रह्मभूतकरं प्रोक्तं ज्ञानिनां तत्र का कथा ॥५०॥ इदं चैत्रचतुर्थ्या यो माहात्म्यं प्रपठेन्नरः । शृणोति चेच्च कृष्णायाः स सर्वं प्रलभेदू ध्रुवम् ॥५१॥ ॥ ओमिति श्रीमदंत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते चैत्रकृष्णचतुर्थीचरितवर्णनं नाम द्वाविंशोऽध्यायः ॥ ❖❖❖ ॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । वैशाखे कृष्णगायास्त्वं चतुर्थ्या वद सांप्रतम् । माहात्म्यं मुनिशार्दूल न तृप्यामि समासतः ॥१॥ वसिष्ठ उवाच । अगस्त्यो मुनिमुख्यश्च समुद्रशोषणे रतः । न शशाक महातेजा ब्रह्माणं शरणं ययौ ॥२॥ ब्रह्मणा नोदितः सोऽपि चकार व्रतमुत्तमम् । वैशाखे कृष्णपक्षे स चतुर्थ्यां विधिपूर्वकम् ॥३॥ ज्ञात्वा माहात्म्यमुग्रं स नित्यं मंत्रपरायणः । शौक्लं कार्ष्णं व्रतं सर्वैश्चकार मुनिसत्तमैः ॥४॥ दशरथ उवाच । तपस्तेजोयुतः साक्षादगस्त्यः सर्व- शास्त्रवित् । व्रतहीनः कथं सोऽपि कुंठितश्च महाद्युतिः ॥५॥ वसिष्ठ उवाच । शृणु राजन् महाभाग सम्यक् पृष्टं विचक्षण ।