मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 483, कुल 1023 में से
संदर्भ में पढ़ें[खं. ४ अ. ३१] [पान ८५]
॥३६॥ स्वस्वस्त्रियं परित्यज्य तन्निष्ठास्ते बभूविरे । मद्यमांसरताः सर्वे नराधिप कृतास्तया ॥३७॥ ब्राह्मणादय एवं ते भ्रष्टा जाता विशेषतः । चौर्यादिकर्मसंयुक्ताः किं वदामि महामते ॥३८॥ कथने परदोषाणां दोषी भवति मानवः । एतादृशी तु सा वेश्या पापरूपाऽतिदारुणा ॥३९॥ नानाजनैर्युता राजन्नरके कृतनिश्चया । न विरामं चकाराऽपि नराणां मोहने कदा ॥४०॥ एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च । चतुर्थ्यां कृष्णपक्षे साऽभवद्दाहेन पीडिता ॥४१॥ पंचम्यां सा मृता तत्र ब्रह्मभूता बभूव ह । व्रतस्यैव प्रभावेण पतितानां सहायिनी ॥४२॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे । तन्न ते कति वै ब्रूयां नालं वर्षायुतैरपि ॥४३॥ मार्गशीर्षचतुर्थ्या यन् माहात्म्यं कथितं परम् । पठनात् श्रवणात् सर्वसिद्धिदं भवति ह्यहो ॥४४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । पौषकृष्णचतुर्थ्यास्तु माहात्म्यं वद भो गुरो । न तृप्यामि कथां शृण्वन् सर्वसिद्धिकरीं पराम् ॥१॥ वसिष्ठ उवाच । इतिहास प्रवक्ष्यामि पुरातनभवं महान् । राजा वीरसहो नाम बभूवे हस्तिनापुरे ॥२॥ बलवान्नीति- युक्तश्चाभवच्छस्त्रास्त्रपारगः । धर्मशीलो वदान्यः स मान्यान् मानयिता भृशम् ॥३॥ नानादानरतश्चापि वांध्यदोषयुतो- ऽभवत् । तदर्थं यत्नमास्थाय देवसेवापरोऽभवत् ॥४॥ ब्राह्मणैः पुत्रकामार्थं पुत्रीयामिष्टिमाहरत् । नैव लेभे स तदपि पुत्रं वंशविवर्धनम् ॥५॥ तीर्थक्षेत्रादिकस्थाने नानाधर्मानकारयत् । स्वयं पूजापरो भूत्वा न लेभे संततिं ततः ॥६॥ ततोऽति- दुःखितो राजा त्यक्त्वा राज्यं वने ययौ । सस्त्रीको भ्रममाणः स शीतोष्णैः पीडितोऽभवत् ॥७॥ महावनान्तरं गत्वा दुःखशोकसमन्वितः । सिंहव्याघ्रादिकान् दृष्ट्वा भयहीनश्चचार ह ॥८॥ तत्राऽऽजगाम योगींद्रस्त्रितो नाम महामुनिः । तं दृष्ट्वा प्रणनामाऽऽदौ कृतांजलिपुटः स्थितः ॥९॥ तेन पृष्ट उवाचाऽसौ निजं सर्वं महायशाः । रुरोद तं महायोगी जगाद करुणायुतः ॥१०॥ त्रित उवाच । राज्ये ते नृपशार्दूल सर्वसिद्धिकरं व्रतम् । नष्टं चतुर्थीजं पूर्णं तेन वंध्योऽसि निश्चितम् ॥११॥ सर्वांदौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् । तदा कर्म कृतं सर्वं चतुःपादप्रदं भवेत् ॥१२॥ नानाधर्मपरस्त्वं वै जनास्तथैव