मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 485, कुल 1023 में से
संदर्भ में पढ़ेंसाक्षादंतर्धानं चकार ह ॥३७॥ राजा वीरसहो राजन् हर्षतः स्वपुरं ययौ । प्रधानैर्नागरैः सर्वैर्मानितः संस्थितोऽभवत् ॥३८॥ तत्रादौ पौषगां कृष्णां चतुर्थी तां समागताम् । चकार स्वपुरस्थैः स विधियुक्तां सुहर्षितः ॥३९॥ प्रशस्तं तद् व्रतं तेन कृतं सर्वत्र भूमिप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥४०॥ ततः पुत्रं महाशूरं नीतिज्ञं धर्मसंयुक्तम् । लेभे नानागुणैर्युक्तं जनाः संहर्षिता बभुः ॥४१॥ रोगादिभिर्विनिर्मुक्ता हृष्टाः पुष्टाश्च तेऽभवन् । यत्र तत्र चतुर्थीजं माहात्म्यम- वदन् जनाः ॥४२॥ पुत्रं राज्ये समास्थाप्य राजा निर्वृत्तिधारकः । सस्त्रीको गणनाथं तमभजद्भावसंयुतः ॥४३॥ अंते ब्रह्ममयः सोऽपि बभूव व्रतपुण्यतः । क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥४४॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम । अन्यच्छृणु महाभाग पापनाशकरं महत् ॥४५॥ गौडे कश्चिद् वणिक् पापी लोभयुक्तो बभूव ह । द्रव्यार्थं पितरं सोऽपि जघान विषदोषतः ॥४६॥ मातरं स तथा दुष्टो मार्गे नानाजनांस्तथा । वणिजो विषयोगेन मारयामास नित्यदा ॥४७॥ एवं बहुधनो जातः परस्त्रीलालसोऽभवत् । मद्यमांसपरो दुष्टो सतीसंगेषु लालसः ॥४८॥ नानामिषेण दुष्टः स्म सतीर्धर्षति वेगतः । परस्त्रियस्ततो राज्ञा धृतोऽसौ ताडितोऽभवत् ॥४९॥ निगडैर्बद्ध एवाऽसौ संस्थितो राजवेश्मनि । दैवयोगेन पौषी सा प्राप्ता कृष्णा चतुर्थिका ॥५०॥ तस्यामन्नादिभिर्हीनः स्थितो दुःखसमन्वितः । चंद्रोदये रक्षकैर्यद्दत्त- मन्नमभक्षयत् ॥५१॥ पंचम्यां राजदूतैः स शूलप्रोतो ममार ह । ब्रह्मभूतः स वै जातो व्रतपुण्यप्रभावतः ॥५२॥ एवमज्ञानसंयुक्ता ज्ञानयुक्ता बभूविरे । ब्रह्मभूता व्रतस्यैव प्रभावेण महामते ॥५३॥ तत्रैव कति ते राजन् कथयामि विशेषतः । न वक्तुं शक्यते तस्मादुक्तं संक्षेपतो मया ॥५४॥ इदं पौषस्य संकष्ट्या माहात्म्यं संशृणोति यः । पठेद्वा तस्य शुभदं भविष्यति निरंतरम् ॥५५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥