मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 487, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ३२ | पान ८९
प्रदं भवेत् ॥२५॥ निर्गुणं गजवाच्यं यद्ब्रह्म मस्तकमेव च । तस्य देहः सगुणं ब्रह्म योगे गजाननः ॥२६॥ सिद्धिर्भ्रांतिस्वरूपा सा बुद्धिर्भ्रांतिधराऽभवत् । ताभ्यां क्रीडति विघ्नेशो मायाभ्यां परमार्थतः ॥२७॥ स्वसंवेद्येन योगेन लभ्यते दर्शनं महत् । तेन स्वानंदवासी स कथ्यते योगिभिः प्रभुः ॥२८॥ संयोगेऽयं गकारः सो योगेऽयं च णकारकः । तयोः स्वामी गणेशानः शांतियोगेन लभ्यते ॥२९॥ पंचधा चित्तवृत्तिर्या तस्यां मोहस्तु पंचधा । समोहं चित्तमुत्सृज्य लभ्यते चित्तचालकः ॥३०॥ तेनाऽयं गणनाथस्तु चिंतामणिरिति स्मृतः । तं भजस्व महाभाग तदा शांतो भविष्यसि ॥३१॥ एवमुक्त्वा ददौ तस्मै मंत्रं मालात्मकं प्रभुः । सविधिं धर्मदत्ताय ततः सोऽंतर्हितोऽभवत् ॥३२॥ राजाऽपि हर्षसंयुक्तो बभूवाचितरां ततः । धन्यमात्मानमेवं स्म मन्यते भाग्यगौरवात् ॥३३॥ तत्रादौ मलमासे या चतुर्थी कृष्णपक्षगा । समागता जनै राजा तां चकार विधानतः ॥३४॥ ततस्तेन व्रतं मुख्यं तत् सर्वत्र प्रकाशितम् । ततो जना व्रतं चक्रुर्भूमिस्या यत्र तत्र ते ॥३५॥ ततो रोगविनिर्मुक्तो धर्मदत्तो बभूव ह । जनाः सर्वे तथा हृष्टा बभूवू रोगवर्जिताः ॥३६॥ नित्यं गणपतिं राजाऽभजच्चानन्य- मानसः । गणेशप्रीतये नानादानानि स ददौ सदा ॥३७॥ ततो राज्ये स्वपुत्रं स संस्थाप्यैकांतसंस्थितः । सस्त्रीको गणनांथं तमभजद्ध्यानमार्गतः ॥३८॥ अंते जगाम विघ्नेशं तल्लीनः स बभूव ह । जनाः सर्वे क्रमेणैते ब्रह्मभूता बभूविरे ॥३९॥ एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् । कथितं ते महीपाल शृण्वन्यत्त्वं कथानकम् ॥४०॥ गांधारदेशवासीयः क्षत्रियः पापकारकः । बभूव स परद्रव्यहारकश्चौर्यमार्गतः ॥४१॥ द्यूतमचरतो नित्यं परस्त्रीलंपटोऽभवत् । गोमांसभक्षणे सक्तो मिथ्यावाक् साक्ष्यपूरकः ॥४२॥ नानाभेदैः सुदुर्बुद्धिः कलहं यत्र तत्र वै । चकार सर्वदा राजन् हिंसाकर्मपरायणः ॥४३॥ ततो राज्ञा महापापी वने निष्कासितो बलात् । जघान मार्गगांस्तत्र जंतून्नानाविधान् खलः ॥४४॥ द्विजादीनां वधे सक्तः स्त्रीबालवधकारकः । एवं नानाविधं पापं नित्यमेव चकार सः ॥४५॥ ततो द्रव्ययुतोऽत्यंतं बुभुजे भोगमुत्तमम् । हृदीप्सितं स दुष्टात्मा नानाचौरसमन्वितः ॥४६॥ कदाचित् पर्वतद्रोणीं मलमासे स आश्रितः । चतुर्थ्यां कृष्णपक्षस्य हिंसार्थं लोभसंयुतः ॥४७॥ ततो मानवमेकं तु मार्गस्थं स ददर्श ह । निःसृत्याधावदत्यंतं शस्त्रहस्तो वधाय वै ॥४८॥ पपाल क्रूरकर्माणं दृष्ट्वा तं सोऽपि भीतितः । क्रोशमात्रं ततो दुष्टः पपात पदव्युत्क्रमात् ॥४९॥ पतितं तं समाज्ञाय नरः क्रोधसमन्वितः । पाषाणेन महादुष्टं मारयामास मस्तके ॥५०॥ मस्तकः स्फुटितस्तत्र क्षत्रियस्य नराधिप । तेन स