भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 49, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 49

खं. १ अ. २१ पान ४९ एकदंतस्त्रिनेत्रश्च चतुरायुधभूषितः ॥३४॥ चिंतामणिमणिं बिभ्रद् हृदये द्युतिजालकम् । महाभक्तमुवाचेत्थं हर्षयन् सर्व- भावतः ॥३५॥ श्रीगणेश उवाच । वरं वृणु महाभाग मुद्गल स्वेप्सितं हृदि । दास्यामि परमप्रीत एकाक्षरविधानतः ॥३६॥ सूत उवाच । गणेशवचनं श्रुत्वा मुद्गलः प्रणनाम तम् । बद्धांजलिपुटो भूत्वा पूजयामास भक्तितः ॥३७॥ पूजयित्वा यथान्यायं प्रहृष्टहृदयो मुनिः । पुलकांकितसर्वांगः साश्रुनेत्रो बभूव ह ॥३८॥ सगद्गदमुवाचाऽथ तं प्रणम्य पुनः पुनः । महता भक्तिभावेन तथा चांगिरसो मुनिः ॥३९॥ मुद्गल उवाच । धन्यो वंशो मदीयोऽद्य धन्यं जन्म वयोऽपि च । विद्या ज्ञानं तपस्तीर्थं धन्यं त्वद्दर्शनात् प्रभो ॥४०॥ इयं धन्याऽद्य पृथिवी च वृक्षाः पुष्पफलान्विताः । पशुपक्षिलताद्या ये आगतोऽत्र महाप्रभुः ॥४१॥ इत्युक्त्वा तं प्रतुष्टाव गणेशं सर्वसिद्धिदम् । स्तोत्रेण स्वात्मनिष्ठः सन् भक्त्या परमया युतः ॥४२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते गणेशमुद्गलसमागमो नाम विंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । कथं स्तुतिः कृता तेन गणेशस्य महात्मनः । तां मे वद महाभाग सर्वज्ञोऽसि मतो बुधैः ॥१॥ सूत उवाच । भवते कथयिष्यामि भावयुक्तेन चेतसा । स्तुतिं कृतां गणेशस्य मुद्गलेन च तां मुने ॥२॥ मुद्गल उवाच । किं स्तौमि त्वां गणाध्यक्ष वेदैः स्तोतुं न शक्यते । ब्रह्मादिभिश्च योगींद्रैर्यथामति च वच्मि भोः ॥३॥ त्वद्दर्शनप्रभावेण शक्तोऽस्मि न च संशयः । त्वदनुग्रहतः सर्वे स्तोतुं शक्ता भवंति वै ॥४॥ नमस्ते गणेशाय सर्वादिभूम्ने परेषां परेशाय वेदातिगाय । परं मायिने मायिनां मोहदात्रे ह्यगण्याय गण्याय ते वै नमस्ते ॥५॥ पुराणादिशास्त्रैः सदा संस्तुताय शिवाद्यैः सुरेन्द्रैर्नमस्ते स्तुताय । अनाद्यंतमध्यादिभेदैर्विहीनाय नानामायायास्तु सर्वेश्वराय ॥६॥ नमो लक्षवेदाष्टयोनिप्रचारतदा- काररूपाय योगेन योगिन् । नमो ह्यन्नभूताय सर्वांकराय कलानन्तरूपाय पुष्टिप्रदाय ॥७॥ नमो भूमिरूपाय नानाप्रभेद- धरायाथ धाराय नित्याय तेऽस्तु । जलाधिश्वरूपाय तृप्तिप्रदाय तदाकारहीनाय साराय धाम्ने ॥८॥ नमस्तेजसां द्योतरूपाय ढुंढे प्रकाशाय भोक्त्रे च सर्वस्थिताय । नमो वायुरूपाय ते चालकाय प्रचारस्वरूपाय भिन्नाय तस्मात् ॥९॥ नमः