मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 507, कुल 1023 में से
संदर्भ में पढ़ेंखं. ४ अ. ४३ पान १०९ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शांतिरूपधरं लोभं दृष्ट्वा देवर्षयोऽमलाः । गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥१॥ गजाननं पूजयित्वा विधानेन सुरर्षयः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसंपुटैः ॥२॥ विदेहरूपं भवबंधहारं सदा स्वनिष्ठं स्वसुखप्रदं तम् । अमेयसांख्येन च लभ्यमीशं गजाननं भक्तियुता भजामः ॥३॥ मुनींद्रवंद्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशांतम् । विकालहीनं सकलांतगं वै गजाननं भक्तियुता भजामः ॥४॥ अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकारम् । अनादिमध्यांतमपाररूपं गजाननं भक्तियुता भजामः ॥५॥ जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादि- हीनम् । अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुता भजामः ॥६॥ न भूर्न रूपं न जलं प्रकाशं न तेजसिस्थं न समीरण- स्थम् । न खे गतं पंचविभूतिहीनं गजाननं भक्तियुता भजामः ॥७॥ न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनंतगं न । गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुता भजामः ॥८॥ गुणेशगं नैव च बिंदुसंस्थं न देहिनं बोधमयं न हुंढिम् । संयोगहीनाः प्रवदंति तत्स्थं गजाननं भक्तियुता भजामः ॥९॥ अनागतं नैव गतं गणेशं कथं तदाकारमयं वदामः । तथापि सर्वं प्रभुदेहसंस्थं गजाननं भक्तियुता भजामः ॥१०॥ यदि त्वया नाथ कृतं न किंचित्तदा कथं सर्वमिदं विभाति । अतो महात्मानमचिंत्यमेव गजाननं भक्तियुता भजामः ॥११॥ सुसिद्धिदं भक्तजनस्य देवं स कामिकानामिह सौख्यदं तम् । अकामिकानां भवबंधहारं गजाननं भक्तियुता भजामः ॥१२॥ सुरेंद्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयंतम् । अनंतवाहं मुषकध्वजं तं गजाननं भक्तियुता भजामः ॥१३॥ सदा सुखानंदमये जले च समुद्रजे चेक्षुरसे निवासम् । द्वंद्वस्य पानेन च नाशरूपे गजाननं भक्तियुता भजामः ॥१४॥ चतुःपदार्था विविधप्रकाशास्त एव हस्ताः स चतुर्भुजं तम् । अनाथनाथं च महोदरं वै गजाननं भक्तियुता भजामः ॥१५॥ महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् । अमायिनं मायिकमोहदं तं गजाननं भक्तियुता भजामः ॥१६॥ रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् । शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुता भजामः ॥१७॥ महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवंद्यमेवम् । अचालकं चालकबीजभूतं गजाननं भक्तियुता भजामः ॥१८॥ शिवादिदेवैश्च खगैः सुवंद्यं नरैर्लतावृक्षपशुप्रभूमिः । चराचरैर्लोकविहीनमेवं गजाननं भक्तियुता भजामः ॥१९॥ मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् । तथापि देवं पुर आस्थितं तं गजाननं भक्तियुता भजामः ॥२०॥ वयं सुधन्या गणपस्तवेन तथैव नत्यार्चनतस्तवैव ।