मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 516, कुल 1023 में से
संदर्भ में पढ़ेंखं ४ अ. ४७ पान ११८ अतोऽसुरस्य योनौ त्वं पतिष्यसि न संशयः ॥५॥ काले सोऽपि ममराऽथ गजयोनौ बभूव ह । गजासुर इति ख्यातो नरकुंजरवेषभृत् ॥६॥ गजासुरेण शंभोस्तपः कृतं च विशेषतः । मंत्रं जजाप शैवेनातोषयन्नियमे रतः ॥७॥ सहस्रेषु गतेष्वेव वर्षेषु वरदः शिवः । जगाद वृणु दैत्येश यत्ते मनसि वर्तते ॥८॥ स वव्रे राज्यमुग्रं मे देहि लोकत्रयस्य च । बलं सर्वातिगं शंभो आरोग्यं सर्वपूज्यताम् ॥९॥ अंते मोक्षं च मे देहि तथेति शंकरोऽब्रवीत् । मस्तकः सर्वपूज्यस्ते भविष्यति गजासुर ॥१०॥ अतो गजासुरस्यैव मस्तकं गणपेन तत् । धृतं वचो रक्षणार्थं शंकरस्य बृहस्पतेः ॥११॥ अन्यच्छृणु प्रजानाथ इतिहासं पुरातनम् । कदाचिच्छंकरेणैव पूजितो गणनायकः ॥१२॥ ददौ शिवाय निर्माल्यं मूर्तिसंस्थश्च विघ्नपः । स्वप्ने तस्य स माहात्म्यं कथयामास विस्तरात् ॥१३॥ श्रीगणेश उवाच । एकनिष्ठतया शंभो भक्त्याऽहं पूजितस्त्वया । प्रसन्नोऽहं स्वमूर्तिस्थः शृणु मे वचनं हितम् ॥१४॥ निर्माल्यं मे गृहाण त्वं सर्वसिद्धिप्रदं शिव । येनेदं मस्तके पुष्पं धृतं मान्येन भक्तितः ॥१५॥ सर्वपूज्यः स वै भावी सर्वातिगयशोधरः । ततः सोऽन्तर्दधे ढुंढिः शिवो जागरितोऽभवत् ॥१६॥ हस्ते पुष्पं समालोक्य विस्मितः शंकरोऽभवत् । विचारं स चकारैव किमिदं देवभाषितम् ॥१७॥ सर्वपूज्यो गणाधीशो नान्यो ब्रह्मांडमंडले । अतो मे भक्तिमाहात्म्यं परीक्षार्थं ददौ प्रभुः ॥१८॥ ततः शिवेन निर्माल्यं न धृतं मस्तके स्वके । पूजायां स्थापितं दक्ष महाभक्तेन सर्वदम् ॥१९॥ ततोऽत्रिसंभवस्तत्र दुर्वासाः सहसाऽऽययौ । दर्शनार्थं महेशस्य शिवेन भृशमानितः ॥२०॥ शिवो विचारमकरोदयं योगी सयोगवित् । वर्णाश्रमविहीनश्च मतः साक्षाद्विनायकः ॥२१॥ अतो निर्माल्ययोग्योयं ददौ तस्मै सदाशिवः । निर्माल्यं विघ्नराजस्य कथयित्वा यशो महत् ॥२२॥ तं प्रणम्य महायोगी दुर्वासाः प्रययौ प्रभुम् । यथेच्छं विचरन् मार्गे ददर्श देवनायकम् ॥२३॥ विचारं मनसा योगी चकार स्वहितावह्म् । सर्वपूज्यो गणेशाद्वै नान्यो भवति निश्चितम् ॥२४॥ वयं भक्ता गणेशस्य भजामोऽनन्यचेतसः । अतो निर्माल्य- योग्योऽहं नैव शंकरवत् कदा ॥२५॥ अयं देवपतिः साक्षादिंद्रः सत्त्वगुणान्वितः । योग्योऽयं नैव संदेहस्तं ययौ मुनिसत्तमः ॥२६॥ तं दृष्ट्वा मघवा नत्वा स्थित ऐरावते प्रभुः । आज्ञां कुरु महाभाग मुने दासोऽस्मि ते जगौ ॥२७॥ ततः सोऽपि प्रसन्नात्मा ददौ तस्मै महामुनिः । निर्माल्यं गणनांथस्य माहात्म्यं प्रोच्य सादरः ॥२८॥ इन्द्रो राज्यश्रिया युक्तो गृहीत्वा गजमस्तके । निर्माल्यमिंद्रः संस्थाप्य ययौ मार्गमवस्थितः ॥२९॥ निर्माल्यस्यापमानेन भ्रष्टोऽभूद्देवनायकः । गता सत्त्वमयी